अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2163, कुल 2600 में से
संदर्भ में पढ़ें४३४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० १ सू० १. पक्षे तत्सहकृतस्यास्य फलसाधकत्वमिति सिध्यति । निषेधपक्षे तु केवलस्येति । इममेव पक्षं सिद्धान्तत्वेनाह पुरुषार्थ इत्यादिना । सिद्धान्ते ज्ञाते ने तत्र पूर्वपक्ष- सम्भव इत्यादी तमेवाह । अतः सर्वात्मभावादेव केवलात् पुरुषार्थः सिध्यति । कुतः । शब्दात् । श्रुतेरित्यर्थः । श्रुतिस्तु 'नायमात्मा प्रवचनेने'त्युपक्रम्य, 'यमे- वैष वृणुत' इत्यादिका, 'ब्रह्मविदामोति पर'मित्यादिका, 'तमेवं विद्वानमृत इह भवती'ति, सनत्कुमारनारदसंवादे 'यत्र नान्यत् पश्यती'त्याद्यात्मिका छान्दो- ग्यश्रुतिश्च । एतदादिश्रुतिषु पूर्वोक्तरीत्या केवलस्यैव भगवद्भावस्य फलसाधकत्वं श्रूयते इति तथा । अत्र 'फलमत उपपत्ते'रित्यत्रेवोपपत्तिं हेतुत्वेनानुक्त्वा, श्रुति- पदं चानुक्त्वा, शब्दपदं यदुक्तवान्, तेन श्रुतिस्मृत्यात्मकः सर्वोपि प्रमाण- शब्दो हेतुत्वेन व्यासाभिमत इति ज्ञायते । तेनं 'केवलेन हि भावेन गोप्यो गावः खगा मृगाः । येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा । यज्ञ योगेन सांख्येन दानव्रततपोऽध्वरैः । व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयात् यत्नवानपि' इत्यादिरूपा स्मृतिरपि संगृह्यते । एतेन श्रुत्यादिप्रमाणवादिनामिदमेवाभिम- तम्, तद्विरुद्धवादिनामितोऽन्यदिति तेषामप्रामाणिकत्वं ज्ञाप्यते । अत एव भाष्यप्रकाशः। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् । एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलं तथा । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तम'मिति गीतावाक्यात् । सहस्रसमे सत्रे हिरण्मयशकुनि- रूपब्रह्मदर्शनस्य तत्र श्रवणात् । नाम्यादीनां यज्ञेषु भगवत्प्रादुर्भावस्य श्रीभागवतेऽप्युक्तत्वाच्च । अथवा । 'यमेवैष वृणुते तेन लभ्यः' 'भक्त्या त्वनन्यया शक्य' इत्यादिषु साधनान्तरव्युदासाच्च प्राप्नोतीति सन्देहे, अधुना प्रथमाधिकरणे विचार्यते । तथाच शेषिणेषभावः सङ्गतिरित्यर्थः । ननु गुणानामिव कर्मणामुपासनास्वरूपनिर्वाहकत्वाभावेनानावश्यकत्वात् किं तद्विचारेणेत्याकाङ्क्षायां विचारफलं पादार्थ वदन्तः सूत्रमवतार्य व्याकुर्वन्ति विधीत्यादि । इममिति । निषेधपक्षम् । तथाच विद्यासामर्थ्यबोधनायायं विचार इत्यर्थः । सिद्धान्तेनाधिकरणोपक्रमस्य तात्पर्यमाहुः सिद्धान्त इत्यादि । 'पूर्वं तु बादरायणो हेतुव्यपदेशा'दित्यत्र सिद्धान्तिनः सूक्ष्मदर्शित्वस्यावधारितवाच्च- बेत्येतदर्थं तमेवाहेत्यर्थः । शब्दशब्दप्रयोगतात्पर्यमाहुः अत्रेत्यादि । संग्रहेण यत् सिद्धं तदाहुः एतेनेत्यादि । अभिमतमिति । तात्पर्यगोचरम् । तद्विरुद्धवादिनामिति । तत्तात्पर्यविरुद्ध- वादिनाम् । अप्रामाणिकत्वमिति । प्रमाणतात्पर्यानभिज्ञत्वम् । बादरायणपदोक्ततात्पर्यमाहुः रश्मिः। मिति । सहस्रसमादीनाम् । कर्मस्वरूपं फलैक्यार्थं फलं वाहुः सहस्रसम इति । श्रीभागवत इति । पञ्चमस्कन्धे । शेषीति । पूर्वोत्तरपादयोर्भगवद्धर्मबहिराधर्मप्रतिपादकयोः तथा । शेषीणो भगवद्धर्माः शेषाः बहिरङ्गा वर्णाश्रमधर्माः । इयं प्रसङ्गसङ्गत्यन्तर्गता । पादार्थमिति । बहिरङ्गवर्णा- श्रमधर्मरूपम् । सूत्रमवेति । सूत्राभासमवतार्य सूत्रं व्याकुर्वन्तीत्यर्थः । विधीत्यादीति । कर्मणा- मुपसंहारः प्राप्नोतीति विधिपक्षः । कर्मसहकृतस्यास्य सर्वात्मभावस्य । केवलस्येति । सर्वात्मभावस्य । केवलसेति पक्षप्रयोजनमाहुः तथा चेति । विद्या सर्वात्मभावः तस्याः सामर्थ्य असहायशूरत्वं तस्य बोधनायायं नैषेधपाक्षिको विचार इति प्रयोजनमित्यर्थः । पूर्वं त्विति । द्वितीयपादसमाप्तौ वर्तते १. नेति लुप्तम् । २. येन । 2034