भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2165, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2165

४१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० १ सू० २. भावेनेवेति ज्ञापनाय फलपदमनुक्त्वा पुरुषार्थपदमुक्तम् । एवं सत्यस्य सूत्रस्या- र्थान्तरमपि व्यासाभिमतमिति ज्ञायते । तथा सत्ययं श्लिष्टः प्रयोगः । तथाहि । पुरुषार्थो भगवानेव । कुतः । अतःशब्दात् । अतःपदविशिष्टश्रुतिवाक्यादि- त्यर्थः । तैत्तिरीयोपनिषत्सु पठ्यते 'अतः परं नान्यदणीयस५ हि परात् परं यन्म- हतो महान्तम्, यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दिति ॥ १ ॥ अथात्र प्रत्यवतिष्ठते । शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥ विष्णोरिज्यत्वेन कर्मशेषत्वात् तत्स्वरूपज्ञानपूर्वको यागः फलातिशयहेतु- रिति तन्माहात्म्यमुच्यत इत्यर्थवादरूपं तत् । अत्र दृष्टान्तमाह यथान्येष्विति । भाष्यप्रकाशः। नेनानुपाधित्वबोधनात् स्वतो विरुद्धधर्माधारत्वं बोध्यते । 'परात् पर'मित्यनेनाक्षरादुत्तमत्वम् । तथाचाक्षरात् परो यः, स एव परमपुरुषार्थ इति सिध्यति । एवं व्याख्यानद्वयेन केवलविद्याया एव पुरुषार्थपर्यवसायित्वम्, पुरुषोत्तमस्यैव च परमपुरुषार्थत्वं बोधितम् ॥ १ ॥ शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥ सूत्रमवतारयन्ति अथे- त्यादि । सिद्धान्तसूत्रे सर्वात्मभावस्य स्वतन्त्रतया पुरुषार्थपर्यवसायित्वे परब्रह्मण एव च परम- पुरुषार्थत्वे दर्शितेपि हेतुव्यपदेशविषयश्रुतौ फलदित्सया कारयितृत्वस्योक्तत्वात् क्रियैव फलम्, छान्दोग्ये कर्माङ्गोपासनानामेव पूर्वमुपक्रान्तत्वादन्यासामपि कर्मशेषत्वेन फलवत्त्वम्, ईश्वरस्य च तच्छेषतयैव फलदत्वमित्याशयेन पूर्वमीमांसक उक्तैर्र्थै प्रतिकूलतयावस्थितो भवतीत्यर्थः । सूत्रं व्याकुर्वन्ति विष्णोरित्यादि । अयमर्थः । पूर्वपादे कर्माङ्गोपासनानां निर्णये तु न पूर्वकाण्डविरोधः । यत्पुनरात्मज्ञा- नादेः सर्वात्मभावस्य च स्वातन्त्र्येण पुरुषार्थपर्यवसायित्वं परब्रह्मणः परमपुरुषार्थत्वं चेत्युक्तम् । रश्मिः। सतीत्यादीति । फलपदमनुक्त्वा पुरुषार्थपदे दत्ते सति । अयमिति । पुरुषार्थ इत्ययम् । भगवानिति । जिज्ञासासूत्राद्ब्रह्मेत्यनुवर्तत इति भावः । एवकारस्तु 'शिष्टेष्वि'ति सूत्रान्मण्डूकप्लुत्या षकारमनुवर्त्यावधारणार्थे प्रयुक्तः । अनुपाधीति । तमो माया उपाधिः । तदुक्तं ब्रह्मविद्योपनिषदि 'ब्रह्मविद्यां प्रवक्ष्यामि सर्वज्ञानमनुत्तमम् । यत्रोत्पत्ति लयं चैव ब्रह्मविष्णुमहेश्वरा'दिति । तम उपाधि- र्माहेश्वरत्वे ॥ १ ॥ शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥ हेतुव्यपदेशेति । द्वितीयपादसमाप्तिस्थस्य 'पूर्वं तु बादरायणो हेतुव्यपदेशा'दिति 'सूत्रस्य शेषः । विषयश्रुतिस्तु 'एष उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति यमधो निनीषत' इति । परस्मैपद्यपि । न पूर्वेति । चित्तशोधकत्वेन ज्ञानोपयोगवत् वेदान्तोपासनाभिश्चि- त्तशोधे कर्मोपयोगात् दृढत्वम् । 'इत्याह नास्तिक्यनिराकरिष्णुरिति वाक्यात् । न पूर्वकाण्डविरोधः । आत्मज्ञानादेरिति । 'तरति शोकमात्मवि'दिति सर्वात्मभावप्राकरणिकश्रुत्युक्तमात्मज्ञानम् । चरम- 2036