अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 217, कुल 2600 में से
संदर्भ में पढ़ें१३४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः । चेतनप्रयत्नपूर्विका धृतित्वाद् वियति विहङ्गमधृतिवत् । ब्रह्माण्डादि प्रयत्नवद्विनाश्यं विनाशि- त्वात् पाठ्यमानपटवत् । उक्तव्यवहारः स्वतन्त्रप्रयोज्यः, व्यवहारत्वाद् आधुनिकलिप्यादिव्य- वहारवत् । पूर्वोक्तं ज्ञानं कारणगुणजन्यं प्रमात्वात् प्रत्यक्षादिप्रमावत् । वेदः पौरुषेयो वेद- त्वाद् यन्नैवं तन्नैवम्, आकाशवत् । वेदः पौरुषेयो वाक्यत्वाद् भारतादिवत् । द्व्यणुकपरिमाणं संख्याजन्यं परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वात् तुल्यपरिमाणकपालद्वयारब्ध- घटपरिमाणवदिति । अत्र प्रथमे प्रयोगे कर्तृजन्यत्वं तु स्वोपादानगोचरापरोक्षज्ञानचिकीर्षा- कृतिमददृष्टाद्वारकजन्यत्वम् । अत्रादृष्टाद्वारकेतिविशेषणान्न जीवात्मनिरूपितादृष्टद्वारकजन्यत्वेन सिद्धसाधनमर्थान्तरं वा । जीवानां क्षित्याद्युपादानीभूतपरमाण्वादिगोचरापरोक्षज्ञानाभावेन तज्ज- न्यत्वे बाधाच्च तैरपि तथा । नच क्षितिघटादिसाधारणस्यैकस्य साध्यस्याभावेन स्वपदार्थान- नुगमात् कथं व्याप्तिग्रह इति वाच्यम् । स्वपदार्थाननुगमस्यादोषत्वात् । अन्यथेच्छादिना ज्ञाना- रश्मिः । परिमाणेत्यादि परिमाणं च प्रचयश्च परिमाणप्रचयौ ताभ्यामजन्यत्वे । प्रचयः शिथिलसंयोगः तज्जन्यं परिमाणं तूलकादौ । एवं च स्थलभेदेन परिमाणप्रचयसंख्याभिः परिमाणं जन्यते । कार्यत्वं प्रागभावप्र- तियोगित्वम् । एवं सति पक्षे ध्वंसे ध्वंसप्रतियोगित्वशालिस्वरूपं जन्यत्वाभावेन साध्याभाववति पक्षे तस्य लिङ्गस्य परिमाणस्य स्वोत्कृष्टपरिमाणजनकत्वनियमादेतादृशं परिमाणं नाणुपरिमाणजन्यं किंतु संख्याजन्य- मित्यशयेन दृष्टान्तमाहुः तुल्यपरिमाणेत्यादि । तथाच तादृशपरिमाणं कपालपरिमाणादुत्कृष्टत्वाभावा- त्संख्याजन्यमिति भावः। इनीति एतस्याग्रे आश्रये सिद्धे द्व्यणुकपरिमाणजनिका संख्या अपेक्षाबुद्धिजन्या, एकत्वान्यसंख्यात्वात्, अयमेकोऽयमेक इमौ द्वौ इति द्वित्वसंख्यावदित्यनुमानेऽस्मदाद्यपेक्षाबुद्धि- जन्यत्वबाधात्तदाश्रयत्वेनेश्वरसिद्धिरित्येतावत्ती त्रुटिरत्रास्ति । तेन परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वादित्यनुमानेनेश्वरसिद्धावपि न क्षतिः । न च द्व्यणुकपरिमाणं परिमाणजन्यमेवास्त्विति वाच्यम् । द्व्यणुकपरिमाणं न परिमाणजन्यं, अणुपरिमाणत्वात् परमाणुपरिमाणवदित्यनुमानेन तस्य परिमाणाजन्यत्वादित्यर्थः । विशेषणादिति जन्यत्वविशेषणादित्यर्थः । जीवेति जीवश्चोपास्या- सिद्धात्मा तन्निरूपितेत्यादिः । अर्थान्तरं वेति ईश्वरसाधने यतमानस्य जीवसिद्ध्यार्थान्तरमित्यर्थः । अत्र ज्ञानलक्षणासामान्यलक्षणादि योगजधर्मैर्किंचिदुपादानगोचरत्वविवक्षणेन च तादृशज्ञानादिमतां जीवानां कर्तृत्वान्न स्वोपादानेत्यादिविशेषणेन तद्धेतुत्वनिवृत्तिः । स्वोपादानेत्यादिविशेषणप्रयोजन- माह जीवानामित्यादि । तथेति । सिद्धसाधनमर्थान्तरं वेत्यर्थः । मीमांसकस्यानादिसृष्टिवादित्वात् तद्वारणायेदमुक्तम् । अभावेनेति घटादीनां कुलालादिकर्तृत्वस्य प्रत्यक्षात् । स्वपदार्थाननुगमात् । स्वपदेन क्षित्यादिसंग्रहे दृष्टान्ते साध्यस्याभावेन घटादिसंग्रहे तु पक्षे तदभावेन पक्षनिष्ठात्यन्ताभावप्रति- योगिनः स्वोपादानेत्यादिसाध्यस्य हेतुः कार्यत्वमित्यनुपसंहारिकार्यत्वम् । तत्फलं च व्याप्तिज्ञानप्रतिबन्ध इति कथं व्याप्तिग्रह इत्यर्थः । न च तद्वन्निष्ठात्यन्ताभावप्रतियोगिसाध्यकादित्वमनुपसंहारित्वम् । एवं च स्वपदेन घटादिग्रहवेलायां पक्षस्य साध्यत्वाभावेन कथं तद्वन्निष्ठत्वमत्यन्ताभावस्येति शङ्क्यम् । स्वपदेन क्षित्यादिसंग्रहे तद्वत्त्वसत्त्वादिति । अदोषत्वादिति इच्छादिना ज्ञानानुमाने यो यदिच्छावान् स तज्ज्ञानवानित्येवं व्याप्तिग्रहे यत्तत्पदाभ्यां विवक्षितमेव गृह्यते तदेवात्र स्वपदेनोक्तमिति प्रातिस्विक- रूपेण व्याप्तिग्रहेऽपि विवक्षितत्वेन रूपेणानुगमाददोषत्वादित्यर्थः । अन्यथेत्यादि तस्य दोषत्वे, अयं 130