भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2170, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2170

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४४१ यश्च साध्वसाधुकर्मफलसम्बन्धरहितः, तस्य कर्तृत्वेन तथात्वमनुपपन्नम्, अतो जीवात्मन एव तथात्वम्, न तु परस्य । नचैतयोर्वास्तवाभेदाज्जैवमिति वाच्यम् । वास्तवाभेदाङ्गीकारेऽप्युक्तश्रुतिभ्यस्तथात्वस्य सुवचत्वात् । वास्तवाभेदस्य पूर्वमेव निरस्तत्वात्तमादाय ये पूर्वपक्षास्ते पूर्वपक्षा एवेत्यलमुक्त्या । 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यत् यतयो विशन्ती'ति श्रुत्या कर्मप्रजाधनैर्मोक्षाप्राप्तिमुक्त्वा त्यागेन तत्प्राप्तिरुच्यते । त्यागविषयस्यान्यस्यानुक्त्या सान्निध्यात् कर्मादीनामेव त्यागो- ऽभिप्रेतः । तथाच मुक्तोपसृप्यत्वाद्भगवत उक्तसाधनेन मुक्ताः सन्तो नाकं परेण भाष्यप्रकाशः। त्वनिवृत्तिरित्येवं न वाच्यम् । 'एतमेवे'त्यादितदग्रिमश्रुतेस्तादृग्ब्रह्मज्ञानस्य गार्हस्थ्यविरोधित्वेन यज्ञासम्भवात् । तदसम्भवे तथा फलोत्पत्त्यापादनस्यापि कर्तुमशक्यत्वात् ब्रह्मणः कर्मशेषत्वं नापादयितुं शक्यमित्यर्थः । नन्वीश्वरस्य कर्तृत्वाद्विश्वसृङ्न्यायेन यज्ञकर्तृत्वे सुखेन तच्छेषत्व- सम्भव इत्याशङ्क्य परिहरन्ति यश्चेत्यादि । तथात्वमिति । कर्मशेषत्वम् । एकदेशिप्रतिपक्षम् । जीवब्रह्मैक्यमादाय पुनः शेषत्वाशङ्कायां तदुपगम्य परिहरन्ति नचैतयोरित्यादि । तथात्व- स्येति । ईश्वरवत् कर्मशेषित्वस्य । ननु यदि जीवेश्वयोर्वास्तवाभेद उपगतः, तर्ह्येकतरपक्षपातस्य कर्तुमयुक्तत्वादुभयमप्यस्त्विति शङ्कायां सिद्धान्ते तदनुपगमेनाहुः वास्तवाभेदस्येत्यादि । जीवब्रह्मणोर्हि घटाकाशमहाकाशयोरिवोपाधितो भेदः, वस्तुतस्त्वभेदः । एतादृशाभेदस्य द्विती- याध्यायत् तृती यपादे 'अंशो नाने'त्यंशांशत्वव्यवस्थापनेन निरस्तत्वात् तमादाय ये पूर्वपक्षास्ते जीवस्वरूपज्ञानात् पूर्वपक्षा एव न भवन्तीति तथेत्यर्थः । श्रुत्यन्तरेणापि कर्मशेषत्वं परिहरन्ति न कर्मणेत्यादि । श्रुतिस्तु बृहन्नारायणे 'अणोरणीया'नित्यनुवाकस्था । अत्रानुवाकारम्भमन्त्रे रश्मिः। पूर्णमिति । वीर्यं शुक्रमेकादशबलं ज्योतिःशास्त्रप्रसिद्धं फलमिति शुक्रब्रह्मवादिनः । यज्ञासंभवा- दिति तदसंभवादिति भाष्यस्यार्थः । तथा फलेति । यदि फलज्ञानाभावे यागप्रवृत्तिर्न स्यात्, 'इज्यत्वेन ज्ञानस्ये'त्याद्युक्तरीत्या फलोत्पत्तिर्न स्यात् । प्रवृत्तिः ज्ञानसाध्या, प्रवृत्तित्वात् घटप्रवृत्तिव- दित्यनुमानम् । तथा 'फलज्ञाने यागप्रवृत्तिः इज्यत्वेन ज्ञानस्ये'त्याद्युक्तरीत्या फलोत्पत्तेः । पटप्रवृत्ति- वदित्यनुमानम् । एवं तथा फलोत्पत्त्यापादनस्येत्यर्थः । विश्वसृगिति । तच्छेषत्वेति । कर्मशे- षत्वम् । निरस्तत्वादिति । ननु श्रीभागवतद्वादशस्कन्धीयप्रमाणनिरूपणाध्यायस्थत्वान्न निरासः साधीयानिति वाच्यम् । परमतत्वेन तस्य शुक्रेणगतिरूपत्वात् । 'तत्त्वं च यथा यथाश्रुतं यथामति तदहं तेऽभिधास्यामी'ति शुकवाक्ये कथनात् । अत एव 'अंशो नानाव्यपदेशा'दिति व्याससूत्रमुक्तम् । करणत्वेन तद्विषयवाक्येन सहितं पुराणमतबाधकं भवतीति । अतः पूर्वपक्षाः पूर्वपक्षाः, न तु सिद्धान्ताः अस्मन्मते, श्रौतजीवस्वरूपज्ञानादिति पूर्वपक्षा एव न भवन्तीति वाक्यशेषः । पूर्वपक्षाः पूर्वपक्षा इति प्रयोगस्तु न भवति, उद्देश्यतावच्छेदकविधेययोरैक्यात् । अतो न भवन्तीति वाक्यशेषः । पूर्वपक्षा निरस्ता न पूर्वपक्षा इति । एवमप्यपदार्थोपदार्य इत्युद्देश्यतावच्छेदकविधेययोरैक्यमिति चेत् । भाष्यप्रामाण्यादस्तु प्रयोगः । तथेति । इत्यलमुक्त्येत्यर्थः । न कर्मणेत्यादीति । त्यागेन तत्प्रा- प्तिरिति । अत्र नञः प्रयोगाभावादिति । कर्मादीनामिति । त्यागविषयाणाम् । उक्तसाधनेनेति । ५६ ब्र० सू० २० 2041