अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2179, कुल 2600 में से
संदर्भ में पढ़ें४५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० १ सू० १३. कर्मशेषत्वमित्युत्सूत्रमाशङ्क्य निषेधति नेति । 'यदहरेव विरजे'दिति श्रुतेः 'तावत् कर्माणि कुर्वीत न निर्विद्येत यावते'ति भगवद्वाक्याच्च त्यागे वैराग्यस्यैव प्रयो- जकत्वादाश्रमविशेषे विशेषाभावादप्रयोजकत्वादित्यर्थः । यत्रापि कश्चित्क्रम- भाष्यप्रकाशः। तदप्यबुद्ध्वा । परप्राप्तिविवरणरूपत्वेन तस्य निःश्रेयसरूपत्वात् । इदं च प्रागुपपादितम् । यदपि 'न प्रेत्य संज्ञास्ती'त्यनेन मोक्षदशायामात्मनः करणाभावाज्ज्ञानशून्यत्वमुच्यत इत्युक्तम् । तदपि तथा । 'अनुच्छित्तिधर्मे'त्यनेन तत्रैव धर्मानुच्छित्तिं श्रावयित्वा 'यद्वैतन्न पश्यति पश्यन् वै तत् द्रष्टव्यं न पश्यती'त्यादिना करणाभावेपि स्वत एव दर्शनस्य विभक्ताभावेनान्यदर्शनस्य चोक्त्या स्वतोऽविभक्तदर्शनस्यैव व्युत्पादनादिति । वस्तुतस्त्विदमपि ब्रह्मप्रकरणमिति वाक्यान्वयाधिकरणे व्युत्पादितमिति न तत्र जीवात्मसत्तासाधनार्थत्वगन्धोपि । तस्मान्न कर्तृशेषा वेदान्ताः । अतः परं भाष्यं विव्रीयते यदहरेवेत्यादि । यदुक्तं कर्तृस्वरूपनिरूपकत्वात् कर्मशेषत्वं वेदान्तानामिति । तन्न युक्तम् । कर्तुः कर्मशेषत्वाभावात् । 'यदहरेवे'त्यादिश्रुतेः 'तावत् कर्मा- णी'ति भगवद्वाक्याच्च त्यागे वैराग्यस्यैव प्रयोजकत्वाद्वैराग्योत्पत्तिपर्यन्तमेव कर्मकरणप्राप्तेराश्रम- विशेषस्याप्रयोजकत्वाद्वेदानां पूर्वोक्तरीत्या 'कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथे'ति स्मृत्या च कर्मत्याग एव तात्पर्याद्वेदानां वेदान्तशेषत्वाज्जीवस्वरूपनिरूपकवेदान्तभागस्यापि त्यागकर्तृनि- रूपकत्वमेव मुख्यम्, कर्मकर्तृनिरूपणं तु प्रासङ्गिकम् । अत एव तद्वाक्येषु 'इति तु कामयमान' इति 'अथाकामयमान' इत्युभयविधं तत्स्वरूपं निरूप्यते । अत आश्रमविशेषमादाय वेदान्तानां कर्मशेषत्वस्थापनमयुक्तमेवेत्यर्थः । ननु त्यागस्य फलार्थत्वेपि ज्ञानाङ्गत्वात् ज्ञानस्य च वेदान्तसि- द्धस्य कर्माङ्गतायाः प्रागेवोक्तत्वात् प्रव्राजेपि चातुराश्रम्यपक्षकथनेनाध्ययनोपात्तवेदान्तभागज- न्यस्य ज्ञानस्य कर्मशेषत्वमनिवार्यमेवेत्याशङ्कायां तस्याः पूर्वमेवोत्तरं दत्तमित्याहुः यत्रापी- रश्मिः। विध्ये'ति श्रुतेः प्रसक्तेरिति भावः। ननु न निःश्रेयसरूपम्, 'सोऽश्नुत' इत्याद्युक्तमभ्युदयस्य सगुणप्राप्ति- रूपत्वात्, अत आहुः इदं चेति । प्रागिति । पूर्वपादे । निर्गुण(स)गुणयोरभेदप्रतिपादन उपपादितम् । तथेत्यबुद्ध्वा । मुक्तस्स्त्वित्यादिनोक्तं दूषयन्ति स्म यदपीति । तत्रैवेति । ईश्वर एव । न उच्छि- त्तिर्धर्मा तेऽनुच्छित्तयः, अनुच्छित्तयो धर्मा यस्येत्येवं श्रावयित्वा । यत् करणदृश्यं न पश्यति, किन्तु करणाभावेपि पश्यति, अतः स्वतः एतद्दर्शनस्य । तथा तद्द्रष्टव्यं अन्यत् द्रष्टव्यम् । तदेवोच्यते करणाभाव इति । एवेति । ज्ञानशून्यत्वयोग्यव्यवच्छेदकः । वाक्यान्वयेति । प्रथमस्य तुरीयपादे । तस्मादिति । कर्मशेषकर्तृप्रतिपादकत्वात् । वैराग्यस्येति । एवकारो वेदान्तैर्जीवस्वरूपज्ञानव्यवच्छे- दकः । आश्रमविशेषे संन्यासाश्रमे जीवे वेदान्तैः स्वरूपज्ञानरूपविशेषाभावादिति द्वितीयोत्र सूत्रार्थः। अन्योपि प्रयोजकत्वादाश्रमेत्यादिभाष्यार्थमाहुः प्रकरणेति । जीवप्रकरणप्रयोजकत्वात् । उपक्रमा- भावान्न जीवप्रकरणत्वमिति भावः । कर्मकर्त्रीति । कर्मणि कर्ता गृहस्थाश्रमे स्थितः, तस्य निरूपणं तु । तद्वाक्येष्विति । शारीरब्राह्मणीयकर्तृवाक्येषु । तत्स्वरूपमिति । कर्तृस्वरूपम् । आश्रम- विशेषमिति । गृहस्थाश्रमम् । एवकारस्तु 'तमेतं'मिति श्रुतिविरोधात् । ज्ञानाङ्गत्वादिति । 'वेदा- न्तविज्ञानसुनिश्चिताथर्था' इति श्रुतेस्तया विशुद्धसत्त्वानन्तरं ज्ञानोदयनियमात् । प्रागेवेति । 'तद्गते विधाना'दित्यत्र विस्तृतकण्ठमणिन्यायेन । चातुराश्रम्येति । क्रमेण संन्यासे । ज्ञानस्येति । शाब्द- १. कुत्रचित् । २. रश्मिकाराणां प्रकाशपुस्तकस्यः 'प्रकरणप्रयोजकत्वादिति पाठः मूलप्रकाशेऽन्तिमे भावाभावान्नेत्र' स्वीकृतः । 2050