अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2184, कुल 2600 में से
संदर्भ में पढ़ेंम्भावनापीत्यर्थः । श्रुतिस्तु 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्ये'द्वि- त्यादिरूपा ॥ १६ ॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ १७ ॥ अत्रेदं विचार्यते । ब्रह्मचर्यान्तरं गार्हस्थ्यमपि श्रुत्या बोध्यते, 'ब्रह्मच- र्यादेव प्रव्रजे'दित्यादिश्रुतिभिर्ब्रह्मचारिण एव प्रव्रजनमपि बोध्यते, एवं सत्य- विरोधाय 'यदहरेवे'ति श्रुतेश्च रागितद्रहितभेदेन विषयभेदो वाच्यः । तत्र ब्रह्म- चर्याविशेषेऽपि भगवदनुग्रहविशेषजचित्तशुद्धिविशेषजवेदान्तार्थपरिज्ञानमेव भाष्यप्रकाशः। रामानुजास्तु 'भिद्यते हृदयग्रन्थि'रिति श्रुतिमुपन्यस्यात्र विद्यया कर्मक्षयकथनाद्विद्यया तदुपमर्द इति न तस्याः कर्माङ्गत्त्वमित्याहुः ॥ १६ ॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ १७ ॥ ननु पूर्वसूत्रैर्विद्यायाः कर्मशेषत्वं बहुधा निरा- कृतम्, फले स्वातन्त्र्यं च स्थापितमिति किमनेन सूत्रेणेत्याशङ्कायां तत्प्रयोजनं वदन्तः पूर्वं त्रिभिः सूत्रैर्प्रहिलवाद् एकस्मिन्निराकृतेऽपि श्रुतौ ब्रह्मचर्यगार्हस्थ्यावेवाभिप्रेतौ, चातुराश्रम्यपक्षस्तु स्मार्तत्त्वान्निर्बल इति तमादाय कर्मत्यागादरो न युक्त इति प्रहिलवादान्तरं निराकरोतीत्याशयेन सूत्रं व्याकुर्वन्ति अत्रेत्यादि । अयमर्थः । जाबालश्रुतौ हि 'संन्यासमनुब्रूही'ति जनकप्रश्ने याज्ञवल्क्यो 'ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रव्रजे'दिति क्रमेण चातुराश्रम्यपक्षं पूर्वमुक्तवान् । तत्रायुर्भागक्रमेण तथाकरणे आयुस्तुरीयभागे आन्ध्यादिकमपि क्वचित् सम्भवतीति तदा कर्मानधिकारे संन्यास इति शङ्का स्यादिति तदभावाय पक्षान्तरमाह 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वा वना- द्वाथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव भाष्यप्रकाशः । पूर्वोक्तमिति । ब्रह्मविदः कर्मकृतगुणदोषानभिनिवेशनम् । विद्ययेति । 'दृष्टे परावर' इति विद्या तया । तदुपमर्दः कर्मोपमर्दः । 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मि- न्दृष्टे परावर' इति श्रुतिः । कर्माणीति कर्म । तस्या इति । विद्यायाः । 'अप्रतिषिद्धमनुमतं भवती'ति बहुधेति वक्ष्यमाणोपयोगि भवतीति ज्ञापितम् ॥ १६ ॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ १७ ॥ बहुधेति । अन्यमतान्यपि दूषितानि संगृहीतानि । फल इति । पुरुषोत्तमज्ञाने स्वातन्त्र्यं कर्मशेषत्वेन तया । प्रहिलवाद् इति । सप्तम्यन्तम् । श्रुता- विति । 'यदहरेव विरजेत् , तदहरेव प्रव्रजे'दिति श्रुतौ । एवेति । प्रहिलवादात् । स्मार्तत्वादिति । सप्तदशाष्टादशाध्याययोरेकादशे चत्वार आश्रमाः । अतः स्मार्तत्त्वात् । तमिति । चातुराश्रम्यपक्षम् । ('यदि वेतरथे'त्यस्य प्रपञ्चः 'ब्रह्मचर्यादेवे'त्यादिः । स्नातक इति । 'वेदमधीत्य स्नाया'दिति वाक्यादधी- तवेदः स्नातः । स्वार्थे कन् । उत्सन्न उच्छिन्नोऽग्निर्यस्य) श्रुत्या बोध्यत इति भाष्यीयश्रुतिं बोधयितुं प्रक्रम्यते ग्रन्थकृद्भिः । अयमर्थ इति । आयुस्तुरीयभाग इति । सप्तम्यन्तं पदम् । क्वचिदिति । पुरुषे । पक्षान्तरमिति । आश्रमद्वयपक्षम् । 'यदि वे'त्यादिनाह श्रुतिः । 'यदि वे'त्यादि । यदि वेति पक्षान्तरे । इतरथेति । भाष्यीयपक्षेण इतरथेत्यस्य प्रपञ्चः । एवकारः क्रमयोगव्यवच्छेदकः । गृहाद्वेति । ब्रह्मचर्यादित्यन्वेति । ब्रह्मचर्याद्गृहीत्यतो गृहाद्वा प्रव्रजेत् । वाकारोऽनादरे । तथा वनाद्वेत्यत्रापि ।