अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 219, कुल 2600 में से
संदर्भ में पढ़ें१३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः। तत्र साध्यसंदेहाशान्त्याहितत्वेन तस्य पक्षसमत्वात् । नच शरीरजन्यत्वस्योपाधेर्विद्यमानत्वा- च्छरीराजन्यत्वस्य प्रतिसाधनस्य सत्त्वाच्च साध्यसंदेहाशान्त्याहितत्वेनानैकान्तिकत्वं सिद्धमिति शङ्क्यम् । कर्त्रादिजन्यतायामपि गुरुभूतस्य शरीरजन्यत्वस्यानवच्छेदकत्वाल्लघुभूतस्य जन्यत्व- मात्रस्यैवावच्छेदकत्वेन तस्य च साधनव्यापकत्वेनानुपाधित्वे हेतोरदुष्टत्वात् । एवं च कर्त्रादि- जन्यतायामिव शरीरजन्यतायामपि जन्यत्वस्यैवावच्छेदकत्वादीश्वरे नित्यज्ञानादिकमिव नित्य- शरीरवत्त्वस्याप्यङ्गीकारेण प्रतिसाधनदोषस्याप्यभावात् । अनुमानं च, क्षित्यादिकं शरीरजन्यं जन्यत्वात् घटवत् । ईश्वरः शरीरी कर्तृत्वात् कुलालवदिति । अनुकूलतर्कश्चात्र कर्तृत्वजन्यता- भ्याम