अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2196, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६७ एवं सति पूर्वकाण्डवैयर्थ्यमापततीति तत्तात्पर्यमाह । विधिर्वा धारणवत् ॥ २० ॥ यथा योगशास्त्रे मनःसमाधेरेव साध्यत्वात् तत्साधनत्वेनैव मानस्याः मूर्तेर्धारणं विधीयते, न तु स्वतन्त्रतया फलसाधकत्वेन, मनःसमाधौ तस्यागात्, 'ततः किञ्चन न स्मरेत्', 'तत्रापि चित्तबडिशं शनकैर्वियुङ्क्त' इत्यादिवाक्येभ्य- स्तथा, तथा भक्तिसाधनत्वेनैवानुष्ठेयमिति तात्पर्येण कर्मविधिरुच्यते, न तु स्वतन्त्रतया फलसाधकत्वेन । ननु तत्र समाधिमधिकृत्य यमादीन्युक्तानीति तन्मध्यपातित्वेन धारणस्य तथात्वमुच्यते, प्रकृते ज्ञानं भक्तिं वाधिकृत्य न कर्म विहितमिति दृष्टान्तवैषम्यमिति चेत् । न । उक्तानुपपत्त्या त्वनिन्द्यमेव कर्म श्रुतिर्विदधातीत्यवश्यं वाच्यम् । निन्दायां त्वेतरपदाज्ज्ञानमध्यपातिन एव तद्विषयस्य प्राप्तेरावश्यकत्वात् । तथा च भगवज्ज्ञानस्येतरनिरपेक्षत्वेन स्वरूपो- भाष्यप्रकाशः । विधिर्वा धारणवत् ॥ २० ॥ सूत्रमवतारयन्ति एवं सतीत्यादि । एवं सतीति । उक्तश्रुतिवेत्तुः कर्माकरणे प्राप्ते सति । व्याकुर्वन्ति यथेत्यादि । अत्र 'ततः किञ्चने'ति वाक्यमेका- दशस्कन्धीयम् । द्वितीयं तृतीयस्कन्धीयम् । तथेति । त्याज्यत्वम् । तथा भक्तीत्यत्र भक्ति- पदं ज्ञानस्याप्युपलक्षकम् । अत्र दृष्टान्तबलेन कर्मणोऽस्वातन्त्र्यसाधनमसहमानो दृष्टान्तवैषम्य- माशङ्कते नन्वित्यादि । वैषम्यं समादधते नेत्यादि । 'एष नित्य' इति श्रुतौ ज्ञानिनि कर्मणां फलाजनकत्वकथनात्तेषां कर्मण्यप्रवृत्त्या ज्ञाने कर्माङ्गतायामप्युक्तदोषतौल्येन उक्तश्रुतौ ब्रह्मज्ञान- शून्यानां दुःखप्राप्तिकथनेन चान्येषामपि प्रवृत्त्यसम्भवे पूर्वकाण्डवैयर्थ्यप्रसक्तिरूपयानुपपत्त्या त्वनिन्द्यमेव कर्म पूर्वकाण्डीयश्रुतिर्विदधातीत्यवश्यं वाच्यम् । 'अथेतर' इत्यविद्वन्निन्दावाक्य 'इतर'पदात् ज्ञानशून्येषु निन्दितेषु ज्ञानवान् वा तद्योग्यो वा ज्ञानमार्गमध्यपात्येव कर्माधिकारी वाच्यः । तत्र जातज्ञानस्यापि 'न कर्मणे'त्युक्तश्रुत्या निवृत्तौ तद्योग्यस्यैव विषयत्वेन प्राप्तेरावश्य- कत्वात् । तथा च काम्यानां कर्मणां मूढविश्वासजनकतया परम्परया सार्थक्यम् । नित्यानां त्वात्मसुखफलकानां विद्यासाहाय्यमन्तरेण तादृशफलोपधायकत्वस्यादृष्टत्वाज्जनकादिष्वपि विद्या- साहाय्यस्यैव दर्शनात् केवलभगवज्ज्ञानस्य च शुकारुणिभरतादिषु फलोपधायकत्वदर्शनात्तस्येतर- रश्मिः । विधिर्वा धारणवत् ॥२०॥ श्रुतीति । 'असूर्या नाम ते लोका' इति श्रुतिवेत्तुः, भाष्ये तत्तात्पर्यमिति । एकादशसप्तदशाध्याये युधिष्ठिरवाक्यम् । 'यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवे'- दित्यादिवाक्यैस्तत्तात्पर्यं सर्वोत्तममार्गविषयमाह । प्रकृते । तृतीयेति । वृद्धत्वाभावाच्छप्रत्ययो मृग्यः। भाष्यं विवरीतुमाहुः एष नित्य इति । उक्तदोषेति । कर्मण्यप्रवृत्त्याख्यदोषतौल्येन । उक्तेति । 'ये तद्विदु'रिति श्रुतौ । अत्रान्येषामिति । कर्मकाण्डे कर्मठानां ज्ञानिभिन्नानामपि । विवृण्वन्ति स्म पूर्वकाण्डेति । विदधातीति । वाक्यं विदधाति । तेन 'ब्राह्मणो न हन्तव्य' इत्यत्र 'हन्तव्य' इति मात्रे निन्द्यविधानेपि न दोषः । वाक्यं त्वनिन्द्यकर्म विदधात्येव । निन्दायामिति भाष्यं विवृण्वन्ति स्म । तद्विषयस्येति भाष्यस्य 'ज्ञानाधिकारिणः' इत्यर्थात् तत्र त्रिकल्पेपि ज्ञानयोग्यस्येत्याहुः तत्र जातेति । तथा चेति भाष्यं विवृण्वन्ति स्म, तथा चेति । जनकादिष्विति । आदिना ज्ञानिनः कर्मसिद्धाः श्रीभागवतप्रसिद्धाः यथा आविर्होत्रः । शुकेति । आरुणिरास्त्युपनिषदि । तस्येति । 2067