अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2217, कुल 2600 में से
संदर्भ में पढ़ें४८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ४ अ० ३ सू० ३३. आश्रमकर्मापि कर्तव्यमेव, नित्यं विहितत्वादित्यर्थः । यथाऽनापद्यशिष्टाचारभक्षणं दोषाय, निषिद्धत्वात्, एतच्चोपपादितं 'सर्वान्नानुमति'रित्यत्र, तथा नित्यत्यागोऽपि प्रत्यवायजनक इति तत् कर्तव्यमेवेति भावः ॥ ३१ ॥ यच्चोक्तं कृतस्यापि नाश्यत्वेनाप्रयोजकत्वान्न कर्तव्यमिति तत्राह । सहकारित्वेन च ॥ ३२ ॥ शमदमादीनामन्तरङ्गसाधनानां सहकारीण्याश्रमकर्माणीत्येतद्रहितैः श- मादिभिरपि ज्ञानं न स्थिरीकर्तुं शक्यमिति तानि कर्तव्यान्येवेत्यर्थः । संसारवासनाजनकत्वस्वभावो यः कर्मणां स ज्ञानेन नाश्यत इति न सहकारि- त्वेऽनुपपत्तिः काचिदिति भावः ॥ ३२ ॥ एवं ज्ञानमार्गीयज्ञानस्थैर्यसाधनमुक्त्वा भक्तिमार्गीयसाधनानां भगवच्छ्र- [L1