अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2228, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ४९९ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४३ ॥ पुष्टिमार्गीयभक्तस्य विहितत्वाविज्ञानमप्रयोजकम् । तत्र हेतुः । तस्य भक्तिमार्गस्वामिनः श्रीगोकुलेशादेव फलस्य श्रुतेः । अतो बहिर्गमनं न साधन- त्वेनात्र कार्यमिति भावः । अत्र, 'यमेवैष वृणुत' इति श्रुतिरनुसन्धेया । एतदनु- पदमेव पठ्यते 'नायमात्मा बलहीनेन लभ्य' इति । अत्र भगवद्वरणानन्तरमपि जीवबलं कतमं, यदपेक्ष्य भगवल्लाभ इति जिज्ञासायां सर्वात्मभाव एव बल- मिति निर्णीयते । तस्यैव मर्यादावलोपमर्दकत्वाद्वगवद्वशीकारहेतुत्वाच्च । ब्रजसी- मन्तिनीनां प्रभुवचनातिक्रममपि कृत्वा स्वरूपपरिग्रहस्तन्मूलेनैव यत इत्यात्रेय आचार्यो मनुते । भाष्यप्रकाशः। चरेद्विधिगोचर' इत्यादिभिरेकादश