अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 223, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page in Markdown:
कत्वेन तदानींतनस्य तस्य नित्यानित्यपुञ्जात्मकविश्वरूपरूपतया वक्तुमशक्यत्वात् । नच नित्यां- शमादाय सिद्धिः । तेषां नानात्वेन तेषु शरीरत्वस्य प्रत्येकपर्याप्त्या तद्धर्मैः सूक्ष्मत्वानवयव- त्वादिभिर्जगत्कारणप्रतिबन्धापत्तेः । नच नित्यपुञ्जात्मकमेव तदङ्गीकार्यमिति वाच्यम् । यस्य पृथिवी शरीरमित्यादौ पृथिव्यादिगंतैकत्वव्याकोपात् । 'सर्वतः पाणिपादं तत्'इत्यादिविरोधापत्तेः । सृष्टिप्रकरणेषु सच्चिदानन्दातिरिक्ततदनुक्त्या तद्विरोधापत्तेश्च । अतो मध्वादिमतीयानुमानस्यापि न श्रुत्यनुसारित्वम् । एतेनैव भैक्षवमपि दत्तोत्तरम् । प्रथमानुमानस्य नैयायिकतुल्यकक्षत्वात् । द्वितीयेऽपि प्रयोगे यदालम्ब्य सत्त्वस्य कारणत्वेन सिद्धिः क्रियते तेषु प्रकरणेषु सत्त्वस्य सर्व- कारणतया अनिश्चायितत्वेनानुमानस्याप्र