अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2271, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५
अथवा । ननु ज्ञानभक्त्योरनावृत्तिः फलम्, अत उत्तमे ते, न तु कर्मेत्या- शयेन कर्मणः फलमावृत्तिरिति यन्निरूपितम्, तन्नेदं चिन्त्यते । 'न स पुनरावर्तत' इतिश्रुतिः सर्वथानावृत्तिमाह, उत सावधिकीं ताममरशब्देन तन्निवृत्तिमिव । किमत्र युक्तम् । सावधिकीमेवेति । तथाहि । पूर्वं कर्मनैयत्यस्य त्वयाप्यङ्गीकार्यत्वात् तस्य प्ररोहैकस्वभावत्वास्य दुरतिक्रमत्वात्तत्फलानुभवस्यावश्यकत्वात् । अपि च, 'य एवं विदु'रिति श्रुतेः सति ज्ञाने हि सा । 'यतो वाचः,' 'अगृह्यो न
भाष्यप्रकाशः । मात्रस्य ग्रहीतुमशक्यत्वाज्ज्ञानिन एव कर्तृत्वेन वाच्याः । तथा सति कर्तृविशेषणत्वेनैव तत्प्रा- प्स्याख्यार्थद्वयसङ्ग्राहकत्वाद्योगान्तरेण तस्य फलवोधकत्वं नायुक्तम् । अत्र फलस्यैव प्रकरणादिति । तथा चात्मनि प्राप्ते पुनरावृत्त्यभावान्ज्ञानस्थानावृत्तिरेव फलमित्यर्थः । अस्मिन् पक्ष एतस्यापि सूत्रस्य नाधिकरणत्वम् । पूर्वशेषत्वात् । एवमत्र ज्ञानफलस्य कथनात् कैमुतिकेन भक्तिफलस्य सूचितत्वेप्यविवेचितत्वात् तद्वि- वेचनाय पूर्वसूत्रयोर्द्वितीयवर्णके यदुक्तम्, तदुपष्टम्भाय चेदमप्यधिकरणान्तरमेवेत्याशयेनाहुः अथवेत्यादि । तन्नेति । अनावृत्तौ । विषयमुक्त्वा संशयमाहुः न स इत्यादि । उक्तवाक्येन 'गृहिणोपसंहार'स्थले कर्मकरणमुक्तम् । सन्न्यासिनो ज्ञाने स्वरूपोपकाराय कर्मकरणं सर्वापेक्षासूत्रेपि स्थापितम् । कर्मणां प्ररोहैकस्वभावत्वं च संयमनाधिकरणे पूर्वसूत्रयोर्द्वितीयवर्णके च व्यवस्थापितम् । एवञ्च ज्ञानवता कर्मकरणेऽपुनरावृत्तिश्रुत्यावृत्तिश्रुत्योर्विरोध आपततीति तत्सन्देहबीजं बोध्यम् । पूर्वपक्षमुपपादयन्ति तथाहीत्यादि । अनावृत्तिश्रुतेः पूर्वं 'यावदायुषमेवं वर्तय'न्निति श्रावणा- दनावृत्तेः पूर्वं जीवद्दशायां कर्मनैयत्यस्य त्वया सिद्धान्तिनाप्यङ्गीकार्यत्वात् कर्मणां च प्ररो- हैकस्वभावत्वात् स्वभावस्य च दुरतिक्रमत्वाज्जन्मान्तरे पूर्वकर्मफलानुभवस्यावश्यकत्वादनावृत्तिश्रुतिः पूर्वानुरोधेन सावधिकीमेव तां वदतीत्यर्थः । एवमावृत्तौ साधकमुक्त्वानावृत्तौ बाधकमाह । अपि
रश्मिः । नाम देहापगमे तत्रैव प्रविष्टा भवन्ति यथायोग्यं सत्तां कुर्वन्तीत्यर्थः । तत्प्राप्त्येति । ज्ञानिन इति विशेषणाज्ज्ञानप्राप्त्या । अस्येत्यादि । कर्तृवाचकपदस्यार्थद्वयं ज्ञानस्वरूपं तस्य सङ्ग्राहकत्वात् । ज्ञानिकर्तृपदे योगः करणव्युत्पन्नज्ञानयुक्तः परतन्त्रत्वेन करोतीति कर्ता । तदन्यो योगः भावव्युत्पन्न- ज्ञानरूपफलयुक्तः स्वतन्त्रत्वेन करोतीति कर्तेति । तस्येति । अर्थद्वयवाचकजातिकर्तृपदस्य । ज्ञानस्येति । करणव्युत्पन्नसाधनस्य । एवेति । अप्यर्थे । ज्ञानफलान्तःपातिन्यनावृत्तिरपि फल- मित्यर्थः । नाधीति । विषयाद्यभावात् तथा । अथवेत्यादीति । न तु कर्मेति । न तु कर्मो- त्तममित्यर्थः । यन्निरूपितमिति । पूर्वसङ्गत्यर्थम् । अनावृत्ताविति । तत्रोभयोरावृत्यनावृत्यो- रावृत्तेर्निरूपणादवशिष्टयामनावृत्तावित्यर्थः । विषयमुक्त्वेति । 'आत्मेत्येवोपासीत स म आत्मेति- विद्या'दित्यादिविषयमपुनरावृत्तिवाक्यघटितम् । अनधिकरणत्वपक्ष एवोक्तार्थः । अपुनरावृत्तिघटित- वाक्यार्थाधिकारिणो गृहस्थाः सन्न्यासिनश्चेत्युक्तेन विषयवाक्येनाधिकारिद्वयमाहुः । न स इत्यादीति । तामिति । अनावृत्तिम् । तन्निवृत्तिमिति । सावधिकीं मरनिवृत्तिम् । उक्तवाक्येनेति । गृहिणेति । कृत्स्नभावसूत्रेत्यर्थः । कर्मकरणमिति । 'आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्ये'ति श्रुत्या । ज्ञानवतेति । जनकेन । तत्सन्देहेति । तदिति विधेयलिङ्गम्, विरोध इत्यर्थः । श्रावणादिति । छान्दोग्येऽन्ते श्रावणात् । पूर्वेति । अमरदृष्टान्तानुरोधेन । तामिति । अनावृत्तिम् । साधकमिति ।
2133