अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2275, कुल 2600 में से
संदर्भ में पढ़ेंएवं श्लेषोक्तिरियमिति ज्ञायते । सम्प्रदायानुवृत्तिरपि भगवदिङ्गितेत्येतादृशाः स्वयं येन मार्गेण फलं प्राप्ताः, तं मार्गमन्यानपि ग्राहयन्त्युपदेशैः, अत्रोभय- त्राप्यात्मत्वमेव हेतुः, अन्यथा आत्मारामस्य सर्वनिरपेक्षस्यैवंकरणासम्भवेन मोक्षमार्गाप्रसिद्धिरेव स्यात् । तस्मात् सर्वथानावृत्तिरेव श्रुत्यभिमतेति ज्ञेयम् ॥ ३॥ भाष्यप्रकाशः। मुक्तोपसृप्यत्वस्य पूर्वमुक्तत्वात् 'ब्रह्मविदाप्नोति पर'मित्युक्तायाः परप्राप्तेः, 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'त्यत्र ब्रह्मसाहित्येन श्रावणाङ्गमविद्यायामात्ममिथुनत्वस्य श्राव- णाच्च तथेत्यर्थः । अत्रेदं सम्पद्यते । भक्ता हि 'पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेन अमृतत्वमेती'ति श्वेताश्वतरश्रुत्या, 'आत्मेत्येवोपासीते'त्युक्तवाग्रे