भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2277, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2277

अथवा आत्मत्वेनोक्तिरुपासनार्थेति वदन् वादी वक्तव्यः। फलार्थमेव तत्। फलं च श्रुत्युक्तस्तत्प्रवेश एवेति त्वयापि वाच्यम् । एवं सत्यादौ ज्ञानमार्गेनुप- भाष्यप्रकाशः । एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोन्त एकैकेन भवती'त्युक्त्वा अकृत्स्नत्ववारणार्थम्, 'आत्मे- त्येवोपासीते'ति वदन्नग्रे, 'अत्र ह्येते सर्व एकं भवन्ती'त्याह। तेनात्मत्वात् सर्वरूपस्य प्राणादिनै- कदेशरूपेण यदुपासनं तत्प्रतीकरूपम्, तादृशेन तेन मोक्षो न भवतीति सिध्यति, न त्वात्म- त्वेन ज्ञानान्मोक्षो न भवतीति । 'अत्र ह्येते सर्व एकं भवन्ती'त्यनेन कृत्स्नत्वरूपस्य फलस्यात्मो- पासने बोधितत्वात् । कृत्स्नत्वं सर्वभावपूर्वकक्षा, सर्वभावश्च मोक्षपूर्वकक्षेति तत्रैव पुरुषविध- ब्राह्मणे 'तद्वैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदे' इत्यत्र सिद्धम् । अतो मोक्षपूर्वकक्षाया अत्र बोधना- दात्मनः परमात्मत्वेनोपासनायां मोक्ष एव फलमिति सिध्यति । तथा च फलस्यापि वाक्यतात्पर्य- निर्णायकत्वान्मोक्षरूपेण फलेनात्मोपासनबोधकश्रुतितात्पर्यं निर्णीयते । अतः श्रुतिसिद्धत्वान्न मोक्ष इति न वक्तुं शक्यमिति 'भावोनेन सूत्रेण बोध्यते । अत आत्मनः परमात्मत्वेनो- पासनं प्रतीकोपासनमिति तवाभिमतमसङ्गतमित्यर्थः । अस्मिन् पक्षे आत्मत्वेनोपासनस्याप्रतीकोपासनत्वाज्ज्ञानभक्त्योः फलवत्ता यद्यप्यायाति, तथापि न हीति पदद्वयं सूत्रे व्यर्थं स्यादित्यतः प्रकारान्तरेण सूत्रं व्याकुर्वन्तोवतारयन्ति । अथवे- त्यादि । तदिति । उपासनम् । उपासनस्य फलं च 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुत्युक्तस्तस्मिन् ब्रह्मण्युपासकस्य जीवस्य प्रवेश इति त्वयापि वाच्यम् । अन्यथा उपासनविधानस्य वैय- रश्मिः । भवति प्रविष्टोपि । यद्वा । एकैकेनेति तृतीयान्तम्। एकैकेन प्रतीकेन वेदनं न भवतीत्यर्थः । सर्व- भावेति । कृत्स्नत्वे सर्वभावः सर्वत्वमात्मोपासने भवतीति कृत्स्नत्वं सर्वभावस्य पूर्वकक्षा। भावपदेन सर्वत्वेन भावो भक्तिर्भवतीत्युक्तम् । पूर्वकक्षेति । सर्वात्मकब्रह्मभवनस्य पूर्वकक्षा । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणा'मिति श्रुतेः । तत् तस्मात् प्रत्यबुध्यत आत्मानं यथावत् प्रबोधितवान् । तदभवत् सर्वात्मकं ब्रह्माभवत् । अग्रे 'तद्वै तत्पश्यन्नि'ति श्रुतिः बृहदारण्यके पुरुषविधब्राह्मणे । शाण्डिल्येति । छान्दोग्ये 'असौ वा आदित्यो देवमध्वि'त्यार- म्भके प्रपाठकेस्ति । ब्रह्मभावरूपमिति । एतमभित इति श्रुतावेतमात्मानं इतः प्रपञ्चात् प्रेत्य सृ- त्येत्यभिसम्भवितास्मीति श्रुत्यर्थात्। अभिसम्भविता प्राप्ता। अभितः सम्बन्धानवगाहि ज्ञानं ब्रह्म तदपि प्राप्ता । समिति सम्यक्त्वं सर्वरूपत्वेन, विपरीतं वा । अत उक्तं ब्रह्मभावरूपमिति । ब्रह्मात्मनो- र्ब्रह्मणो मुख्यत्वप्रसिद्धेः । श्रुतिसिद्धत्वादिति भाष्यं विवृण्वन्तिस्म । अत इति । आरोपितत्वात् मिथ्यात्वेन मोक्षासाधकत्वात् । परमात्मत्वेनेति । आरोहितेन । असङ्गतं मोक्षाजनकत्वात् । न चा'सत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत' इति मोक्षोपपत्तिरिति शङ्क्यम् । 'स्वयमेवात्मनात्मानं वेत्थे'ति स्मृतिविरोधात् । अतोसत्ये वर्त्मनीत्येकः पक्षो न सर्वथा । अप्रतीकोपासनयेति । चित्तशुद्धिद्वारेति ज्ञेयम् । षष्ठ्यन्तपाठे तु ज्ञानविशेषणम् । फलं चेति भाष्यं विवृण्वन्ति स्म । उपासनस्येति । 'ब्रह्मैव स'न्निति श्रुतिः शारीरब्राह्मणेस्ति । त्वयापीति । आवरणभङ्गातिरिक्तमन- ङ्गीकुर्वंस्तोऽभिद्रेन । यद्वा । त्वयाप्यसदाग्रहेण वाच्यम् । उपासनेति । अर्थवादत्वेपि उक्त- युक्तियुक्तवेदाः प्रमाणमिति । उपपत्तिमिति पाठो व्याकृतः । अनुपपत्तिमितिपाठे तु इति शेष इति भाष्ये