भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2281, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2281

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७५ भाष्यप्रकाशः । शास्त्रात् प्रतिमासु विष्णुदृष्टिवत् स्वात्मनस्तत्तादात्म्यदृष्टिः कर्तव्या, न तु संसारिणो मुख्य आत्मा परमेश्वर एवेति प्रापयितव्यम् । एवं प्राप्ते, उच्यते । आत्मैत्येव परमेश्वरः प्रतिपत्तव्यः । यतः परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवेनमुपगच्छन्ति, 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते' इति । तथा अन्येपि 'अहं ब्रह्मास्मी'त्येवमादाय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति चात्म- त्वेनैवेश्वरं वेदवाक्यानि । 'एष त आत्मा सर्वान्तरः', 'एष त आत्मान्तर्याम्यमृतः', 'तत् सत्यं स आत्मा तत्त्वमसी'त्येवमादीनि । यदुक्तं प्रतिमान्यायेन प्रतीकं भविष्यतीति । तदयुक्तम् । गौण- त्वप्रसङ्गात् । 'मनो ब्रह्मेत्यादित्यो ब्रह्मे'त्यादौ सकृदेव तद्वचनेन, इह चाहं त्वं त्वमहमित्यस- कृद्वचनेन प्रतीकश्रुतिवैरूप्याच्च । 'अथ योन्यां देवतामुपास्तेन्योसावन्योहमिति न स वेद, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती'ति, 'सर्वं तं परादाद्योन्यत्रात्मनः सर्वं वेदे'त्या- दिषु भेददर्शनापवादाच्च । न च विरुद्धगुणयोरन्योन्यात्मत्वासम्भवः शङ्क्यः । विरुद्धगुणत्वस्य मिथ्यात्वोपपत्तेः । नापीश्वराभावः शङ्क्यः । शास्त्रप्रामाण्यान्नास्वामीश्वरस्य संसारित्वाप्रतिपादनेन संसार्यात्मनः संसारित्वापोहेनेश्वरत्वप्रतिपादनस्य क्रियमाणत्वेन तदभावात् । नाप्यधिकार्य- भावः, प्रत्यक्षविरोघो वा । प्राक्प्रबोधाद्धि व्यवहारे संसारित्वस्य तद्विषयकप्रत्यक्षस्य चाङ्गीकारेण विरोधाभावात् । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये'दित्यादिना प्रबोधदशायामेव श्रुत्या प्रत्यक्षाद्यभावबोधनात्तदानीं च श्रुत्यभावस्यापि, 'अत्र पिता अपिता भवती'त्युपक्रम्य, अग्रे 'वेदा अवेदा' इति वचनेन वेदाभावस्यापीष्टत्वात् । यदपि कैश्चिदविद्याया ब्रह्मणः सद्वितीयत्वादद्वैतानु- पपत्तिरिति शङ्क्यते, तदप्येतेनैव प्रत्युक्तम् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति शाङ्करा आहुः । तन्न रुचिरम् । परमात्मन्यहङ्ग्रहोपासने साध्ये प्रमाणत्वेनात्मत्वोपगमस्य वक्तुमयुक्तत्वात् । परमात्मनि मुख्यवृत्तस्यात्मपदस्य 'सर्वं खल्विदं ब्रह्म,' 'इदं सर्वं यदयमात्मा आत्मैवेदं सर्व'- मित्यादिश्रुतिभिः सर्वस्य ब्रह्मत्वे बोधिते सर्वसङ्ग्राहक तया स्वप्रत्यग्विचिद्वेद्यवाचकाहमपदतो रश्मिः । वस्तत्तादात्म्यं तस्य दृष्टिः । मुख्य इति । सोपाधिको गौणो मुख्यत्वनिरूपकः । विरुद्धेति । अपहत- पाप्मत्वापहतपाप्मत्वयोः । तद्भावादिति । ईश्वराभावशङ्काभावात् । प्रबोधाज् ज्ञानात् । तद्वि- षयकेति । संसारिविषयकप्रत्यक्षस्य । प्रत्यक्षादीति । आदिनाधिकारी । एतेनेति । मिथ्यात्वोप- पादनेन । परमात्मनीति । जीवे ब्रह्मोपासनानिषेधात् परमात्मनोधिष्ठानत्वमुक्तम् । परमते परमात्म- विषयके, 'अहमस्मि ब्रह्माहमस्मि' इत्याद्यर्थवादत्वानङ्गीकारादहंग्रहोपासनं तस्मिन् । तत्रापि 'ब्रह्मा- हमस्मी'ति । ब्रह्मणः प्रसिद्धेः । 'अहं ब्रह्मास्मी'त्यत्र भवन्मये ब्रह्मज्ञानाधीनविद्यासम्बन्धाधीनत्वादस्म- च्छब्दप्रयोगस्य 'ब्रह्माहमस्मी'ति प्रबोधे सुकरत्वात् । प्रमाणत्वेनेति । अहङ्ग्रहोपासनश्रुतौ ह्यनधि- गतार्थगन्तृत्वं प्रमाणम् । जीवस्यात्मत्वेनोपगमस्तस्येति, आत्मोपगमस्य प्रमाणत्वं शब्दार्थयोरेात्पत्तिक- कसम्बन्धात् । सर्वैति । आत्मपदस्यात्मत्वेन सर्वसङ्ग्राहक तया । स्वप्रत्यगिति । स्वमात्मा प्रत्यग् जीव- स्तस्य वित्तिर्ज्ञानं तद्वेद्यः प्रादेशिकः, 'अङ्गुष्ठमात्रो रवितुल्यरूपः कामाहङ्कारसमन्वितो यः, बुद्धेर्गुणेनात्म- गुणेन चैव आराग्रमात्रो ह्यपरोपि दृष्टः', इति श्रुतेर्बुद्ध्यादिगुणेषु प्रदेशेषु भवः प्रादेशिको जीवः । १. श्रुतौ पश्यतीत्यदाविति शेषः । 2143 ४ ब्र० सू० २०