भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2286, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2286

सर्वेषां फलसिद्धेः, पृथक्पृथगुक्तौ गौरवात्, प्रयोजनविशेषाभावाच्च । तादृशाधि- काराभावात् पृथक् तदुक्तिरिति चेत् । न । सर्वत्र सदा तद्भावनायां तथानुभव- स्यापि सम्भवात् । एवं सति वस्तुतः सर्वस्य ब्रह्मत्वं नाभिमतम्, किन्तु यथा- दित्यादीनां तत्तथा, तथा सर्वस्यापीति प्रतीकोपासनत्वमेव सर्वत्र । तेनैव फल- मिति प्राप्ते प्रतिवदति । आदित्यादौ या ब्रह्मत्वमतय उच्यन्ते, तास्तु साकारस्यैव ब्रह्मणो व्यापक- त्वात् तस्य प्रत्येकमप्यङ्गमुपासितं फलद‌मित्येकैकाङ्गविषयिण्यस्ता विधीयन्ते । उपपन्नं चैतत् । न हि साकारव्यापकब्रह्मणोऽङ्गं न ब्रह्म, अतो न प्रतीकोपा- सनत्वं तत्र । भाष्यप्रकाशः । प्रयोजनविशेषसत्तामाशङ्कते तादृशेत्यादि । तादृशाधिकाराभावादिति । उत्कृष्टाधिकारा- भावात् । तथा च येषां न सर्वत्र ब्रह्मत्वेन स्फूर्तिः, तदर्थं पृथगादित्याद्युपासनोक्तिरित्यर्थः । समाधत्ते नेत्यादि । सर्वत्र तद्भावनायां तया उपनयेनोपनीतमानरूपस्य ब्रह्मानुभवस्यापि सम्भ- वात् । एवं सतीति । अधिकाराभावेप्युक्तरीत्या सर्वत्र ब्रह्मदर्शनसम्भवेप्येवं पृथगुपासनो- पदेशे सति । वस्तुत इत्याद्युक्तरीत्या तत्तथा उपासनं प्रतीकम्, तथा सर्वस्यापि ब्रह्मत्वेनोपा- सनमपि प्रतीकम् । तेनैव चित्तशुद्धिद्वारा मुक्तिरूपं फलं सम्भवतीति पूर्वसूत्रद्वयोक्तमयुक्तमिति प्राप्ते प्रतिवदति । आदित्याद्युपासनानामङ्गोपासनत्वेन फलवत्त्वं वदन् तासु तदुक्तप्रतीकरूपत्वं परिहरतीत्यर्थः । सिद्धान्तं वक्तुं सूत्रं व्याचष्टे । आदित्येत्यादि । एकैकाङ्गविषयिण्य रश्मिः । प्रतियोगिज्ञानरूपप्रयोजनविशेषसत्ताम् । उत्कृष्टेति । ब्रह्मत्वदृष्ट्यधिकारः ह्यादित्यवायुघटपटप्रतिमादिषु तस्याभावादेकप्रकारेणोपासनस्य पृथगुक्तिः । तेन ह्यादित्यवायुघटपटादिरूपौपमन्यवसत्ययज्ञेन्द्रद्युम्न- कुलालकुविन्दफलानां तूष्णीकं विचारो ज्ञानमार्गोपयोगी । भक्तिमार्गे तु घटपटादिकार्यस्य ब्रह्मत्व- मात्मकृतज्ञतासम्पादकम् । कृत्स्नोपासनया तादृशाधिकारे प्रेम, 'श्रेयोभिर्विविधैर्भाक्तैः कृष्णे भक्तिर्हि साध्यत' इतिवाक्यात् । तदर्थमिति । औपमन्यवसत्ययज्ञेन्द्रद्युम्नार्थम्, न तु वामदेवार्थम् । उपनयेनेति । उपनयः समीपानयनं यथा शाब्दं ह्युपनीतं मन्तव्यमितिशङ्कायां श्रोत्रसमीपे शब्दे- नार्थनयनं श्रावणं प्रत्यक्षमिति । तेनेत्यर्थः । उपनीतस्य ब्रह्मणो मानं तद्रूपस्य । उक्तरीत्येति । उपनीतमानरूपत्वेन ब्रह्मदर्शनमिति रीत्या । आदित्यादीनां पृथक् तदनन्तर्गतत्वेनोपासनोपदेशे सति । तत्तथेति व्याख्येयम् । उपासनं प्रतीकम् । तथा सर्वस्येतिभाष्यमाहुः तथा सर्वस्येति । पूर्वसूत्रेति । 'न प्रतीक' 'ब्रह्मदृष्टि'सूत्रद्वयोक्तं प्रतीकोपासनस्यामुक्तिजनकत्वम् । तास्विति । अङ्गोपासनासु । पूर्वपक्ष्युक्तप्रतीकरूपत्वम् । आदित्येत्यादीति । उच्यन्त इति । छान्दोग्ये उच्यन्त इति । साकारस्येति । विराजः । 'सर्वं खल्विदं ब्रह्म'ति विषयवाक्ये भाष्ये विराज उक्तेः 'सर्वत्र प्रसिद्धोपदेशा'दित्यत्र । ननु 'न हि स' इति भागे भक्तिमार्गे पुरुषोत्तमोक्तेः 'साकारब्रह्म- वादैकव्यापक' इति श्रीसर्वोत्तमग्रन्थोक्तेर्विराट्सङ्गः साकारत्वं कथमिति चेत् । न । अधोक्षजत्वेपि 'यतो वाच' इतिश्रुतेरिमित्थंतया यावद्धर्मप्रतिपादकत्वेपि परब्रह्मणो जगदभिन्ननिमित्तोपादानत्वेन ह्याकारजगत्समवायिनः साकारत्वात् । साकाराद्देवदत्ताज्जायमानस्य तत्पुत्रस्य साकारत्वदर्शनात् ।