अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2288, कुल 2600 में से
संदर्भ में पढ़ें३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ३ सू० ६. भाष्यप्रकाशः। मधुत्वं मधुनाडीत्वम् । 'प्राच्यो मधुनाड्य' इत्यादिश्श्रुतेः । तासां मधुप्रधानत्वान्मधुत्वम् । ऋचां मधुकृत्त्वम्, ऋग्वेदस्य पुष्पत्वम् । तासामेव ऋचाममृतता ब्रह्मरूपत्वम्, ताभिर्ऋग्वेदतापम्, रश्मिः। विवक्षितत्वात्। पूञ्पवने, सम्पदादि क्विप्, अपूपं पाति पिबति वा । आतोनुपेति कः । पिष्टस्य विकारः । संज्ञायामिति कन् । 'पिष्टको घृतपूपादौ नेत्ररोगान्तरेपि चे'ति विश्वः । 'पिष्टको नेत्ररोगे स्याद्धा- न्यादिचमसेपि चे'ति पाठान्तरम् । धान्यादिपानपात्रं नानावृक्षा रसाश्रया अप्यपूपः । तेन 'यथा मधु- मधुकृतो निस्तिष्ठन्ती'त्यत्रोक्तनानावृक्षरसातृत्वं मधुकृतां न विरुद्धम् । तद्वदन्तरिक्षं तत्रादित्यरश्मी- रूपोन्तरिक्षसाध्यक्षे वायौ खसमवायिनि समवायेन स्थित्वा 'वायव्या वै पशव'इत्युक्तेः पशून् अश्वान् रथद्वारा भुङ्क्ते । ऋचोपि भुञ्जते आदित्यद्वारा । 'वायुः शब्दतामापद्यत' इति प्राचां प्रवादात् । अत्रेदं प्रतिभाति । अवयवा ऋगादयः न तूष्णीमादित्यमवयविनमारभन्तेपि तु मधुत्वम् । आदित्यस्य सिद्धत्वात् । मधुत्वान्तर्गतज्ञानं च किंविषयकमित्यपेक्षायामन्तरिक्षे ये वायव्याः पशवः राधाकृष्णवराहाः । पञ्चमाष्टके 'आदित्यः पशुरासीत्तेनायजन्त, अग्निः पशुरासीत्तेनायजन्त, वायुः पशुरासीत्तेनायजन्ते'ति श्रुतावुक्तेः । आदित्यः कृष्णः पशुः पश्यतीति पशुः द्रष्टा अग्निः, निरुक्ते देवपत्नीनामसु सूर्यपाठाद् राधा । वराहः वायुः । हिरण्यगर्भनस्तो 'वराहतोको निरगा'दिति श्रीभाग- वते । तथा च मधुत्वान्तर्गतज्ञानं पशुविषयकमिति भावोत्र । अधिकारस्कन्धानन्तरं ज्ञानस्कन्धः । तादृशज्ञानविषयत्वेन तृतीयस्कन्धे वराहपशुसर्गपुरःसरं सर्ग उक्तः । ततो राधाकृष्णपशुनिरोधपुरःसरं सामान्यतो निरोधः प्रपञ्चविस्मृतिपूर्वकभगवदासक्तिलक्षणकनिरोधो व्याख्यात इति । स्कन्धचतुष्टय- व्याख्याशयः । मरीचयः पुत्रा इति । मधुकृतां पुत्रा अपि मधुकृतस्तद्वन्मरीचयः किरणाः दीप्तयोपि आदित्यमधुकृतः । तथाहि । आदित्योपां पुष्पं तेजस्तु भगवदीयं पुत्रवत् किरणदीप्तिरूपम् । 'अजा- यमानो बहुधा विजायत' इति श्रुतेरधिकारिणं 'पुन्नाम्नो नरकात् त्रायत' इति पुत्रपदव्युत्पत्तेः पाल- कम् । अन्यथा बन्धप्राप्त्या नाधिकारं कुर्यात् । 'देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण' इति संहितोक्तम्, तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । अत्रत्यं प्रतीकमाहुः । प्राच्य इत्यादि । तस्यादित्यस्यावयवरूपरसाश्रयस्य सवितुर्ये प्राञ्चः पूर्वदिग्गता रश्मयः । ता एवास्यादित्यस्य प्राच्यो मधुनाड्यः । प्रसिद्धमधुरूपार्णवादित्यमधुरूपच्छिद्राणि । ऋचामिति । ऋच एव मधुकृत इति श्रुत्यर्थः । भ्रमरा इवर्षः समवायित्वं मधुनि भ्रमराणां आदित्ये ऋचाम् । 'एषा त्रय्येव विद्या तपती'- तिश्रुतेः । 'ऋग्वेद एव पुष्प'मितिश्रुत्यर्थमाहुः ऋग्वेदस्येति । नारायणविशिष्टादित्यस्य पुष्टिद्वारोपासन- फलत्वं सूचितमित्यादित्यमधुनरूपेण वेद ऋग्वेदः पुष्पं अर्थरूपफलसत्ताविशिष्टम् । वेदयति साधनफले अलौकिके इति वेदः । 'ता अमृता आप' इति श्रुत्यर्थमाहुः तासामेवेति । प्रसिद्धमधुनः द्रव्यभूय- स्करस्वरूपापां लक्षणवत्त्वात् प्रकृते आप उक्ताः । ता इति विधेयलिङ्गम् । पुष्पं फलसत्ताकमिति । आदित्यमधुपीता आपः अमृताः अमृतपदवाच्या मुख्यफलजनकत्वात् । एवं च तासामपामेव या रुचो दीप्तयः तासाममृता आपः इतीति शेषः । इति हेतोर्ब्रह्मरूपत्वम् । ऋग्वेदस्य शब्दस्यार्थरूपत्वम् । 'अथ वेद' इति शब्दरूपत्वं वा । 'ता वा एता ऋच एतमृग्वेदम्भ्यतपं'न्निति श्रुत्यर्थमाहुः ताभिरिति । ता वै मधुकृतः वै निश्चयेन एताः पुष्परूपाः कार्यकारणाभेदात् । ऋग्वेदं स्वं रूपं गहनार्थवत्त्वेन तापयुक्तमकरोत् । आधिदैविके तापः सम्भवति । 'मृदब्रवी'दितिवत् । 'तस्याभितप्तस्य यशस्तेज 2150