अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2291, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ३६ आसीनः सम्भवात् ॥ ७ ॥ पूर्वसूत्रेण धर्ममात्रस्य फलत्वमुक्त्वा, अधुना धर्मिणः फलत्वं तत्साधनं चाह सम्भवात् । उत्कटस्नेहात्मकसाधनस्य सम्भवात् तदधीनः सस्तदग्रे आसीनो भगवान् भवति । एतेन भक्तवश्यतोक्ता ॥ ७ ॥ एवं बहिःप्राकट्यमुक्त्वा आन्तरं तदाह । ध्यानाच्च ॥ ८ ॥ भावानौत्सुक्यदशायां व्यभिचारिभावात्मकसततस्मृतिरूपध्यानादपि हृदि प्रकटः सन्नासीनो भवतीत्यर्थः। तेन स्थैर्यमुक्तं भवति ॥ ८ ॥ एवं भक्तेच्छयैव स्वरूपप्राकट्यमित्युक्त्वा लीलानाविष्करणमाविष्करणं चापि तदिच्छयैवेत्याह । अचलत्वं चापेक्ष्य ॥ ९ ॥ भक्तेच्छामपेक्ष्याचलत्वम्, चकाराच्चलत्वमपीत्यर्थः ॥ ९ ॥ भाष्यप्रकाशः। आसीनः सम्भवात् ॥ ७ ॥ सूत्रमवतारयन्ति पूर्वसूत्र इत्यादि । पूर्वसूत्रे चक्षुरादि- रूपस्यादित्यादेर्धर्मस्य प्राप्यत्वेन फलत्वमुक्त्वास्मिन् सूत्रे धर्मिणो भगवत एव तदुपासनफलत्वं तत्प्राप्तिसाधनं चाहेत्यर्थः । व्याकुर्वन्ति सम्भवादित्यादि । भगवदङ्गत्वज्ञानपूर्वकयादित्याद्यु- पासनया उत्कटस्नेहसम्भवात् तथा, न तु तदभावेपीत्यर्थः । एतेन ज्ञानमार्गेणामीदृशस्नेहाभावा- न्नासीनो भवति, किन्तु परोक्षज्ञानविषयो भवतीत्यपि बोधितम् । सिद्धमाहुरेतेनेत्यादि ॥ ७ ॥ ध्यानाच्च ॥ ८ ॥ सूत्रमवतारयन्ति एवमित्यादि । तदिति । प्राकट्यम् । व्याकुर्वन्ति भावेत्यादि। स्थैर्यमुक्तं भवतीति। एतेन ज्ञानमार्गे एतादृशस्यापि भावस्याभावादस्थैर्यमित्यपि बोधितम् ॥ ८ ॥ अचलत्वं चापेक्ष्य ॥ ९ ॥ सूत्रमवतारयन्ति एवं भक्तेत्यादि । अस्मिन्नपि सूत्रे अपे- क्ष्येति कथनाज्ज्ञानमार्गीयस्योपासनामपेक्ष्य वाऽचलत्वादिकं बोध्यम् ॥ ९ ॥ रश्मिः। आसीनः सम्भवात् ॥ ७ ॥ उक्त्वेति । अभिधायोक्त्वा, व्यञ्जनया तु धर्म्यप्युक्त एव । आहेति । अभिधायाहेत्यर्थः । परोक्षेति । 'भक्त्याहमेकया ग्राह्य' इतिवाक्यात् तथा ॥ ७ ॥ ध्यानाच्च ॥ ८ ॥ भावेत्यादीति । भावना न सन्न्यासनिर्णयोक्तत्वाद्विप्रयोग एव, संयोग- व्यभिचारिभावसततस्मृतिरूपत्वस्य वक्ष्यमाणत्वात् । ऐकाग्र्ये मनोनिवेशस्य ध्यानस्य साधनदशायां सत्त्वम् । फले तन्न निविष्टम् । अत एव सततपदम् । एतादृशस्येति । भक्तिरसे व्यभिचारिभावा- त्मकस्यान्तर्बहिःस्थित्या स्थैर्ययुक्तस्य । किन्त्वक्षरविषयकं ज्ञानं सोहमिति तस्य 'कृष्णोऽहं पश्यत गति'- मित्यत्रोक्तसदृशस्य । अस्थैर्यमिति । तादृशे स्थैर्यभिन्नो धर्म उक्तः, आन्तरमात्रत्वात् ॥ ८ ॥ अचलत्वं चापेक्ष्य ॥ ९ ॥ उपासनमपेक्ष्येति । यावदुपासनं तावदित्यर्थः । अचलत्वेति । आदिना चलत्वम् ॥ ९ ॥ 2153