अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2300, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the text into pure Markdown in Devanagari:
श्लेषशब्दस्य व्युत्पत्तेः । अतिदेशस्यैवं पदेनैव प्राप्तेः सर्वं सूत्रं तत्परत्वेन न व्याख्येयम् । पातशब्दस्य देहपातं तुशब्दस्यावधारणमर्थमुक्त्वा देहपाते मुक्तेरावश्यकत्वावधारणं वाक्यार्थ इति चोक्तिर्न साधीयसी । मुक्तिप्रापकपदा- भावात् 'भोगेन त्वितरे क्षपयित्वाथ सम्पद्यत' इत्यग्रे वक्तव्यत्वाच्च ॥ १४ ॥ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥ ननु देहस्य कर्मजन्यत्वात्तन्नाशो तन्नाशस्यावश्यकत्वाद् ब्रह्मविदः प्रवचना- नुपपत्तिः । एवं सति ब्रह्मजिज्ञासोर्गुरूपसत्त्यादिसाधनासम्भवः । 'आचार्यवान् पुरुषो वेदे'ति श्रुतेस्तदभावेन ज्ञानमार्गोच्छेदेन भक्त्युच्छेदप्रसङ्ग इत्याशङ्क्य समाधत्ते । पूर्वे पूर्वसूत्राभ्यां ज्ञाननाश्यत्वेन ये प्रोक्ते पापपुण्ये ते नाशेषे, [L10