अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2305, कुल 2600 में से
संदर्भ में पढ़ेंनाशनिरूपकश्रुत्या अस्याः श्रुतेर्विरोधपरिहारायावश्यं विषयभेदो वाच्यः । न च काम्यकर्मविषयेयं श्रुतिरिति वाच्यम् । 'तदधिगम उत्तरपूर्वाघयोरश्लेषवि- नाशा'दितिसूत्रेण 'इतरस्याप्येव'मितिसूत्रावयवेन चाविशेषेणारब्धातिरिक्तकर्म- णोरखिलयोर्नाशनिरूपणात् । पापकृत्यायां काम्यत्वासम्भवाच्च । तस्मात्त्वनु- ग्रहभाजस्य भक्तस्य स्वप्राप्तिविलम्बमसहिष्णुर्भगवान् अस्य प्रारब्धमेतत्सम्व- न्धिगतं कृत्वा तस्य तेन भोगं कारयति । प्रारब्धं भोगैकनाश्यमिति स्वोक्तमर्यादापालनाय न नाशयति । न च तयोर्मूर्तत्वेनाकृताभ्यागमप्रसङ्गेन च नैवं वक्तुमुचितमिति वाच्यम् । ईश्वरत्वेनान्यथापि करणसम्भवात् । मर्यादा- विपरीतस्वरूपत्वात् पुष्टिमार्गस्य न काचनात्रानुपपत्तिर्भावनीया । तस्या अत्र भूषणत्वात् । अत एवैकेषामिति दुर्लभाधिकारः सूचितः ॥ १७ ॥
भाष्यप्रकाशः । विषयश्रुतिविरोधोपि दुष्परिहरः । अतस्तदभावायावश्यमधिकारिभेदः प्रारब्धात्मककर्मविनियोग- श्चात्राभ्युपेयः । उभयपदे आचार्यद्वयग्रहणमप्यसङ्गतम् । सन्निधौ जैमिनेरश्रुतत्वात् । सामान्य- शब्दस्य चोपस्थितार्थकृत्वनियमेन बाधकं विना तच्चागायोगात् । अत उक्तरीत्यैव मन्तव्यमित्यर्थः । तदेतच्चतुर्थस्कन्धीये तत्त्वदीपप्रकाशे सम्यग् व्युत्पादितमिति प्रभुचरणैर्नात्रोक्तम् । सिद्ध- माहुः तस्मादित्यादि । पुनः किञ्चिदाशङ्क्य परिहरन्ति न च तयोरित्यादि । तथा चेदं तवापि तुल्यमतः परिहारसाम्यान्न पर्यनुयोग उचित इत्यर्थः ॥ १७ ॥
रश्मिः । कत्वात् । बलवत् यदनिष्टं तस्याननुबन्ध्यजनकं यदिष्टसाधनताज्ञानं तस्येत्यर्थः । विषयश्रुतिस्तस्य पुत्रा इति । तस्या निरोधः काम्यकर्मविषये सूत्रविषयश्रुतिस्वरूपयो नाशः । विषयश्रुतिविरोध इति पाठो वा । विषयश्रुतिसहानवस्थानं तस्य पुत्रा इत्यस्या इत्यर्थः । तथा च तदधिगम इत्यत्र सहावस्थानमित्यर्थः । तदभावायेति । तदधिगमाधिकरणे विषयत्वेन प्रवेशाभावाय । अधिकारीति । पुष्ट्यधिकारिभेदः । अप्रारब्धेति । सञ्चितक्रियमाणकर्मविनियोगः पुष्टिमार्गीयोक्तः । सामान्येति । एकेषामिति शाखिपरत्वेन सामान्यशब्दस्य चोपस्थितार्थो विशेषार्थः पुष्टिमार्गीयाणामिति, तदर्थकत्वनियमेन । तच्चागेति । पुष्टिमार्गीयाणामित्यर्थत्यागस्य योगाभावात् सामान्यतो विशेषो बलीयानिति । मन्तव्यमिति । मननं कर्तव्यम् । तदेतदिति । तदधिगम इत्यादिभाष्येणोक्तम् । तस्मादित्यादीति । एतत्सम्वन्धीति । यथा पूर्णभगवदीयानां शेषव्यासाभिमतानामाचार्याणां तत्सम्बन्धिगतकरणम् । तस्य प्रारब्धस्य । तेन सम्बन्धिनो भोगं कारयति । यतः सम्बन्धिनो विरक्ता- नामग्रेसराः । तत्कार्याणि कुर्वन्तीति णिच् । प्रारब्धमिति । मर्यादास्वरूपं पुष्टिमगतम् । न च तयोरित्यादीति । तयोः पुण्यपापयोः । अकृतेति । सुहृद्विषत्सु अकृतस्य कर्मणोभ्यागमस्तस्य प्रसङ्गेन, कृतनाशाभावात् कृतनाशो नोक्तः । नैवं वक्तुमिति । पुष्टिमार्गीयस्य साधुपापयोः सुहृदा- दिषु प्रापणं वक्तुं नोचितम् । अन्यथापीति । अमूर्तयोः प्रापणमकृताभ्यागमप्रसङ्गनाशनं च । अत्रेति । पुष्टिमार्ग इत्यर्थः । तस्या इति । मर्यादामार्गीयानुपपत्तेः । दुर्लभेति । 'मुक्तानामपि सर्वेषां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' इति वाक्यात् तथा । सूचित इति । वाच्यार्थस्तु पुष्टिमार्गीया इत्युक्तम् । तवापीति । तयोर्मूर्तत्वेनेत्याद्याशङ्कितुरपि । परि-
१. विषयश्रुतिनिरोध इति रश्मिपाठः । २. अप्रारब्धेति रश्मिपाठः । ७ ब्र० सू० १० 2167