अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2313, कुल 2600 में से
संदर्भ में पढ़ेंपुरवासिना'मिति श्रीभागवतवाक्याच्च । न च लौकिकत्वविशिष्टदेहादिरत्र निषि- ध्यत इति वाच्यम् । सामान्यनिषेधे बाधकाभावात् । नच तदनुभव एव बाधक इति वाच्यम् । भगवत इव तदीयानामपि तेषां तथात्वे बाधकाभावात् । नन्वा- गन्तुकत्वमेव बाधकमिति चेत् । मैवम् । यथा व्यापिवैकुण्ठस्याक्षरात्मकत्वेनाना- गन्तुकत्वेन नैसर्गिकतद्गताखिलवस्तुरूपत्वेन सामीप्यादिमुक्तिं प्राप्नुवतां भक्तानां देहेन्द्रियादिरूपमप्यनागन्तुकमेव वैकुण्ठप्राप्तिमात्रेण शुद्धजीवानां सम्पद्यते, तदीयत्वेन तत् फलतीति यावत्, तथा पुरुषोत्तमलीलाया अपि पुरुषोत्तमात्मक- त्वात्तत्राङ्गीकारमात्रेण प्राचीनाशेषप्रावाहिकधर्मनिवृत्तौ शुद्धजीवस्य पुरुषोत्तम- लीलात्मकदेहादिरपि तदीयत्वेन सम्पद्यत इति नानुषपन्नं किञ्चिदित्यवहितोऽवैहि । अयमेवार्थो वाजसनेयिशाखायां 'अथाकामयमान' इत्युपक्रम्य, 'आत्मकाम
भाष्यप्रकाशः।
सीदित्यृषयो वा व तेऽग्रे असदासीत्तदाहुः के ते ऋषय इति प्राणा वा ऋषय' इति वाजिनां श्रुतौ प्राणा असत्पदेनासाधुतया श्राविता इति पुष्टिसृष्टिस्थत्वाभावाच्च तादृशाः । धर्मान्तरैर्जीवतौल्येऽपि स्वरूपतो न जीववन्निर्दुष्टा इति जीवदृष्टान्तेन प्राणादिरूपे सूक्ष्मशरीरे लौकिकत्वापगमेनालौकि- कत्वं न वक्तुं शक्यम् । अयं च पक्षो, 'देहेन्द्रियासुहीनाना' मिति सप्तमस्कन्धवाक्येनोपष्टभ्यते । अतस्तस्यागपक्ष एव साधीयानित्यर्थः । उक्तवाक्य एव किञ्चिदाशङ्क्य परिहरन्ति न च लौकि- केत्यादि । अत्रेति । एतद्वाक्ये । तदनुभव इति । देहाद्यनुभवः । तथात्व इति । ब्रह्मात्मक- त्वे । पुनः किञ्चिदाशङ्क्य परिहरन्ति नन्वित्यादि । मैवमित्याद्यवेहीत्यन्तं च । अनागन्तु- कमेवेति । यथा लौकिकेषु देहादिषु प्रकृतिर्मूलकारणतयाऽनुसीव्यति, एवं जीवेऽक्षरमन्वेति । 'यथा प्रदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपा' इति, 'यदक्षरे परमे प्रजा' इति च श्रुतेः । तच्च सर्वत्र सर्वात्मकमिति जीवांशिनस्तस्य आकारो जीवरूपेऽंशे नैसर्गिक एवेत्यना- गन्तुकम् । तदीयत्वेन तत्फलतीति । अग्रे 'ब्राह्मेण जैमिनि'रित्यत्राङ्गीकरिष्यमाणत्वादावरण- भूतलीकिकापगमे भगवद्दत्तस्तदीयत्वेन फलतीत्यर्थः । दार्ष्टान्तिके तु बादरायणसूत्रोक्तः पुरुषो- त्तमात्मकस्तदीयत्वेन सम्पद्यत इति ज्ञेयम् । एतं पक्षं श्रुत्योपष्टभ्नन्ति । अयमेवेत्यादि । श्रुतिं
रश्मिः।
विवरणं धर्मान्तरैरित्यादि । शरीरादिभिः । निर्दुष्टा इति । असत्पदेन श्रुतौ मृत्युत्वस्य नास्तिकत्व- स्योक्त्या सर्वमारकत्ववेददूषकत्वदोषवन्त इति न निर्दुष्टाः । सूक्ष्मेति । प्राणर्षीणां सूक्ष्मशरीरे । तथात्वमित्यस्य व्याख्यानमलौकिकत्वमिति । देहेन्द्रियेति । भाष्यं विवृण्वन्तिस्म । अयं चेति । सूक्ष्मशरीरस्य क्षपणपक्षः । तत्यागेति । प्राणादीनां त्यागपक्षः । प्रकृतिरिति । पुराणमतमिदम् । मायाद्वारा सृष्टौ ब्रह्मकर्तृ माया समवायिकारणमिति । श्रुतेरिति । दृष्टान्तश्रुतेः । पूर्वश्रुत्येकवाक्य- तया 'यदक्षर' इत्यत्रापि अक्षरे समवायिनीत्यर्थः । कपालयोर्घट इतिवत् । दार्ष्टान्तिकश्रुतिस्तु 'तथाक्षरा- द्विविधाः सौम्य भावाः प्रजायन्त' इति मुण्डकस्था । यद्वा, महानारायणस्थं 'यदक्षर'इतिदार्ष्टान्तिकम् । तच्चेत्यक्षरम् । 'द्विरूपं तद्धि सर्वं स्या'दिति सिद्धान्तमुक्तावलीवाक्यम् । आकार इति । निराकारस्या- कारः सर्वात्मभाववतां नित्यलीलाप्रविष्टानां च । छान्दोग्ये नारदसनत्कुमारसंवादे 'तस्य वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानतः आत्मतः प्राण आत्मतः आशात्मतः स्मर आत्मत आकाश आत्म- ४ ब्र० सू० २० 2175