अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2338, कुल 2600 में से
संदर्भ में पढ़ें८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० २ अ० ४ सू० १६. श्रुतिः। ऋग्वेदे पठ्यते 'ता वाँ वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि' । ता तानि वां भगवत्तदन्तरङ्गभक्तयोः सम्बन्धीनि वास्तूनि वस्तूनि गमध्यै प्राप्तुमुश्मसि कामयामहे । तानि कानीत्याकाङ्क्षायां गूढाभिसन्धिमुद्घाटयति । यत्र श्रीगोकुले गावो भूरिशृङ्गा बहुशृङ्गा रुरुप्रभृतयो मृगाश्च वसन्तीति शेषः । अयासः शुभावहाः। तत् उक्तगुणविशिष्टं उरु गीयत इत्युरुगायस्तस्य । गोप्यो हि सततं तं गायन्ति । अत एव तदाविर्भक्तेषु कामान् वर्षतीति वृषा । तस्य परमं प्रकृति- कालातीतं पदं स्थानं भगवतो वैकुण्ठं भवति । तत्रैतादृशलीलाऽभावेन