सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2355, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2355

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ चतुर्थोऽध्यायः । तृतीयः पादः । अर्चिरादिना तत्प्रथितेः ॥ १ ॥ ( ४-३-१ ) ननु ज्ञानमार्गीयस्येव मर्यादामार्गीयभक्तस्याप्यर्चिरादिमार्गेणैव गमनम्, उत सद्योमुक्तिरेव ¹भवति संशयः । तत्र यथा ज्ञानिनो नियमाभावः, तथा- त्रापीति प्राप्ते आह । अर्चिरादिमार्गेण तस्य ज्ञानमार्गीयस्यैवोत्कर्षकथनात् स एव तेन मार्गेण गच्छति, न तु भक्तोपीत्यर्थः । भाष्यप्रकाशः। अर्चिरादिना तत्प्रथितेः ॥ १ ॥ पूर्वस्मिन् पादे प्रथमतः पुष्टिमार्गीयस्य ततो मर्यादा- मार्गीयस्य सद्योमुक्तिप्रकारो दर्शितः, तदनु क्रममुक्तौ निर्गमनद्वारादिकं च दर्शितम्, इह तु ततो निर्गतस्य यो ब्रह्मप्राप्तिमार्गो ब्रह्मलोकस्तत्प्रकारश्च प्रदर्श्यते, तत्राधिकरणमवतारयितुं संशयादिकमाहुः नन्वित्यादि । अत्र मर्यादायाः स्वकृतत्वात् तत्पालनं भक्तेर्ज्ञानादुत्कृष्टत्वं च सन्देहबीजम् । नियमाभाव इति । साधनसामर्थ्यतारतम्यनियमाभावः । सिद्धान्तं वक्तुं सूत्रं विवृण्वन्ति अर्चिरादीति । तस्येत्यादि । 'प्रथ प्रख्याने', प्रथनं प्रधितिः प्रसिद्धिः । सा श्रुतिषु तस्यैव ज्ञानमार्गीयस्यैवेति तस्यैव तथेत्यर्थः । ज्ञानिन एव प्रसिद्धिरिति यदुक्तम्, तद् व्युत्पादयन्ति रश्मिः। अर्चिरादिना तत्प्रथितेः ॥ १ ॥ पूर्वस्मिन् पादे इति । द्वितीयपादे । निर्गमनेति । तदोकोऽग्रज्वलनाधिकरणे निर्गमनद्वारादिकम्, आदिना रश्म्यनुसारित्वादिकम् । ब्रह्मलोक इति । 'वेदान्तविज्ञानसुनिश्चितार्था' इति श्रुतेर्ब्रह्मविदो विश्रामस्थानम् । संशयादिकमिति । आदिना पूर्वपक्षोत्तरे सङ्गतिश्च । भाष्ये । तत्र यथेति । संशये यथा । नियमाभावः सद्योमुक्त्यर्चिरादि- मार्गयोः तथा । तथाच सद्योमुक्त्यर्चिरादिमार्गयोः भक्तस्य नियमाभावः । प्रकृते । साधन- सामर्थ्येति । अत्र साधनतारतम्यादित्येतावत्तैव चारितार्थ्ये सामर्थ्यपदं ज्ञापयति । सद्योमुक्ति- क्रममुक्त्योः सायुज्यं सह युनक्तीति सयुक् सयुजो भावः सायुज्यमित्येवं यौगिकपदार्थ जीवब्रह्मणोः प्रथमपादे निरूपितम् । द्वितीयपादे तत्प्रकारादिदर्शित इति प्रकाश उक्तम् । तत्र भक्तिमार्गीयसायुज्या- १ भवतीति पाठः । १३ ब्र० सू० २ ०