अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2381, कुल 2600 में से
संदर्भ में पढ़ेंननु परस्य व्यापकत्वान्निर्विकल्पत्वाच्च न गन्तव्यतोपपद्यते । जीवस्याप्य- विद्योपाध्यवच्छिन्नतादशायां परब्रह्मणि गन्तृत्वासम्भवात् तन्नाशे च वस्तुतोऽ- भिन्नत्वात् स्वरूपेणावस्थानमेव भवतीति न गन्तृत्वमप्युपपद्यते । तस्यैवाभावात् । भाष्यप्रकाशः प्रत्याशाभावात् , 'नान्यः पन्था विद्यतेऽयनाये'ति श्रुत्या मोक्षे ज्ञानातिरिक्तसाधननिषेधाच्च तस्य मतस्यासङ्गतत्वं स्थापयित्वा, जीवस्य परस्मादन्यत्वे संव्यवहारलोपप्रसङ्गः, प्रत्यक्षादिप्रमाणा- प्रवृत्तिश्चेत्याशङ्क्य, प्राक् प्रबोधात् स्वप्नव्यवहारवत् तदुभयोपपत्तिमुक्त्वा, 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यती'त्यादिश्रुत्या अप्रबुद्धविषये प्रत्यक्षादिव्यवहारश्रावणात् प्रबुद्धविषये च 'यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये'दित्यादिना तदभावश्रावणात् । परब्रह्मविदो गन्तव्य- त्वादिविज्ञानस्य बाधितत्वेन न कथमपि गतिरुपपादयितुं शक्येत्यन्तेन । तदेतत् संगृह्यानुवदन्ति जीवस्योपाध्यवच्छिन्नत्वदशायामित्यादि । तस्यैवाभावा- दिति । जीवस्यैवाभावात् । एवं परब्रह्मविदो गत्यभावमुपपाद्य गतिविषये यत्तैरुक्तम्—गतिविषयाः श्रुतयः सगुण- ब्रह्मविषया भविष्यन्ति । तथाहि । क्वचित् पञ्चाग्निविद्यां प्रस्तुत्य गतिरुच्यते, क्वचित् पर्यङ्क- विद्याम् , क्वचिद्वैश्वानरविद्याम् । यत्रापि ब्रह्मविद्यां प्रस्तुत्य गतिरुच्यते, 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म,' 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मे'त्यादौ, तत्रापि वामनीत्वादिभिः सत्यकामत्वादिभिर्गुणैः सगुणस्योपास्यत्वात् सम्भवति गतिः । न क्वचित् परब्रह्मविषया गतिः श्राव्यते । गतिप्रतिषेधस्तु 'न तस्मात् प्राणा उत्क्रामन्ती'ति श्राव्यते । यः पुनः 'ब्रह्मविदामोति पर'मित्यत्र गत्यर्थ आप्नोतिः, तत्रापि पूर्वोक्तेन न्यायेन देशान्तरप्राप्त्यसम्भवात् स्वरूपप्रति- रश्मिः । दिति । 'स्वमनीषया त्वेतत् तर्कित'मित्यादिना दूषयित्वा । जीवस्य परस्मादनन्यत्वे सर्वव्यवहार- लोपप्रसङ्ग इति पाठः । प्रबोधादिति । ज्ञानात् प्राक् दीर्घस्वप्नव्यवहारवत् । तदुभयेति । जीवस्य परस्मादनन्यत्वसर्वव्यवहारलोपप्रसङ्गाभावयोरुभयोरुपपत्तिमुक्त्वा । तदभावेति । प्रत्यक्षा- दिव्यवहाराभावश्रावणात् । इत्यन्तेनेति । भाष्येण । परब्रह्मविद् इत्यारभ्य तु तद्भाष्यपंक्तिकैव । कथमपीत्यत्र कथञ्चनेति भाष्ये पाठात् तावन्मात्रभेदः । जीवस्योपाध्यवच्छिन्नत्वदशाया- मित्यादीति । क्वचित् पुस्तके तु जीवस्याप्युपाध्यवच्छिन्नतादशायामिति भाष्ये पाठः । गन्तृत्वा- सम्भवादिति । अज्ञानस्योपाधेर्विद्यमानत्वाद् गन्तृत्वस्यैक्यासम्भवात् । आविद्यकरूपेति । आधुनिकास्तु मायाविद्ययोर्भेदमङ्गीकृत्य मायोपाधिरीश्वरः, अविद्योपाधिर्जीव इत्याहुः तत्त्वानुसन्धा- नाख्यग्रन्थादौ । गन्तृत्वेति । नात्र गन्तृत्वमैक्यम् , किन्तु विद्यावतो विद्यावरणभङ्गाद्ग- न्तृत्वस्यासम्भवो ज्ञेयः । कचिदिति । श्वेतकेतूपाख्याने । यत्रापीति । छान्दोग्ये 'जान- श्रुतिर्ह पौत्रायण' इत्यारम्भके प्रपाठकेपि । तथा दशमप्रपाठके दहरविद्यायामपि । तत्रा- पीति । आप्नोतावपि । पूर्वोक्तेनेति । भाष्यप्रकाशे 'अथ यत्तैर्जीवस्वरूपविचारेणेत्याद्युक्ते य आद्यपक्षदूषण एकदेशत्व इत्यादिनोक्तन्यायेन । स्वरूपेति । स्वरूपपदप्राप्तिः स्वरूपप्रबोधो वा ।