सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2414, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2414

प्रतिवदति । सम्पद्य ब्रह्म सम्पद्यापि स्थितस्य जीवस्य प्रभोरत्यनुग्रहवशात् स्वरूपात्मकभजनानन्ददित्सायां तत्कृत आविर्भावो भवत्येव। आविर्भावस्य भग- वदधीनत्वज्ञापनायास्य तत्र कर्तृत्वं नोक्तम्। ननूक्तं 'न स पुनरावर्तत' इत्यादिश्रुति- विरोधः कर्माभावश्च बाधक इत्यत आह स्वेनेति । स्वशब्दोऽत्र भगवद्वाची । तथा च भगवत्स्वरूपबलेनैवाविर्भावइत्यर्थः। एवं सत्युक्तश्रुतिर्मर्यादामार्गविषयिणीतिनवि- रोध इति भावः। तेषामिह प्रपञ्चे न पुनरावृत्तिरस्तीति हि श्रुतिराह। लीलायाः प्रपञ्चा- दन्तरित्येव युक्तमिति प्राप्ते तथेत्यर्थः । सिद्धान्तं व्याकुर्वन्ति सम्पद्येत्यादि । ब्रह्म सम्पद्येति । द्वितीयपादोक्तरीत्या वागादीनां प्राणानां ब्रह्मणि लयोत्तरं, 'ब्रह्मवेद ब्रह्मैव भवति', 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुत्या ब्रह्मणा सहैकीभावं प्राप्य । आवि

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2414, कुल 2600 में से · BharatKosha