अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2416, कुल 2600 में से
संदर्भ में पढ़ें१६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० २ सू० ५. ब्राह्मेण ब्रह्मसम्बन्धिना ब्रह्मणा भगवतैव स्वभोगानुरूपतया सम्पादितेन सल्लज्ञानानन्दात्मकेन शरीरेण पूर्वोक्तानश्नुत इति जैमिनिराचार्यो मनुते । तत्र हेतुः, उपन्यासादिभ्य इति । 'ब्रह्मविदाप्नोति पर'मिति ब्रह्मविदः परप्राप्तिं प्रतिज्ञाय तदर्थस्यैवोपन्यासोऽग्रिमयर्चा क्रियते, 'सोऽश्नुत' इत्यादिना । तथा च परप्राप्तेर्मुक्तिरूपत्वात् पुष्टिमार्गीयायास्तस्या एवंरूपत्वादक्षरब्रह्मणः पुरुषोत्तमाय- तनरूपत्वात्तदात्मकमेव शरीरं तस्य वक्तुमुचितम्, न तु प्राकृतम् । एतद्बोधनायै- वाग्रेऽन्नमयादीनि विभूतिरूपाण्युक्तानि । भक्तशरीरे प्रतीयमानानामर्थानां भाष्यप्रकाशः । वक्ष्यमाणविचार आरभ्यते इत्यर्थः । पूर्वपक्षार्थः स्फुटः । सिद्धान्तं व्याकुर्वन्ति ब्राह्मेणेत्यादि । ब्रह्मसम्बन्धिनैत्यस्य विवरणं ब्रह्मणेत्यादि शरीरेणेत्यन्तम् । उपन्यासादिभ्य इति । उप समीपे न्यासः कथनं विवरणमिति यावत् स आदिर्येषाम्, तद्गुणसंविज्ञानः, ते उप- न्यासादयस्तेभ्यः । तदेतद्विवृण्वन्ति ब्रह्मविदित्यादि । एवंरूपत्वादिति । सर्वकामानश्न- न्नरूपत्वात् । ननु ब्रह्मभावं विना मुक्त्यभावाज्ज्ञाते च तस्मिन् व्यापकत्वादिवदानन्दाविर्भाववच्च पूर्वसिद्धाकारस्याप्याविर्भाव उपन्यासश्रुतेरप्युपपत्तौ भोगार्थं ब्राह्मशरीरस्याङ्गीकारो न प्रामाणिक इत्यत आहुः एतदित्यादि । शरीरस्याक्षरात्मकत्वबोधनायैव श्रुत्युक्तोपन्यासानन्तरमन्नमयादीनि विभूतिरूपाणि पुरुषविधत्वेन ब्रह्मत्वेनोपास्यत्वेन चोक्तानि । तस्य फलं भक्तशरीरे प्रतीयमानानामर्थानां पृथिव्यादीनां गन्धादीनां च विभूतिरूपत्वेन ब्रह्मात्मकत्वं तेन कथनेन रश्मिः । सम्पादयतीति ब्राह्मं शरीरम् । अन्येभ्योपीति डः । यावदिति । नितरां क्षेपः विवरणस्यैवेतिभावः । तद्गुणेति । उपन्यासादिभ्य आक्षिप्तेन ब्राह्मेण शरीरेण पुरुषोत्तमेनैव सर्वान्कामानश्नुत इति सूत्रार्थादाक्षेपे विशेष्यान्वयिन्युपन्यासस्याप्यन्वयाद्धेतुत्वेन विशेष्यान्वय्यन्वयित्वरूपतद्गुणसंविज्ञान- लक्षणादिना तद्गुणसंविज्ञानो बहुव्रीहिः । त इति । विवरणर्चि परप्राप्तिलक्षणार्थस्योपन्यासः । आदिपदोक्तं ब्रह्मणो निर्गुणत्वं विवर्यविवरकविभागश्च उपन्यासप्रतिपादक 'मुक्त' इति सूत्रादग्रिमसूत्रद्वयाच्चोक्तास्ते उपन्यासब्रह्मनिर्गुणत्वविवर्यविवरकविभागा इत्यर्थः । यद्वात्रायमुप- लक्षितोर्थः ते उपन्यासाऽन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इत्यर्थः । ब्रह्मविदितीति । ब्रह्मविदित्यादीति वक्तव्ये तत्पर्यायोपन्यासोऽयम् । तेन शरीरप्राप्तेरित्यादिभाष्यस्य आक्षेपलभ्यत्वेपि शरीरप्राप्तेः मुक्तौ रूपं यस्या इत्येवं मुक्तिरूपत्वं तस्मादित्यर्थः । पूर्वसिद्धेति । 'अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः । कर्मजानि शरीराणि तथैवाकृतयो नृपे'ति वाक्यात् सूक्ष्मस्य । उपन्यासश्रुतेर्ब्रह्म- विदाप्नोतीति श्रुतेः । ब्राह्मशरीरस्येति । सच्चिदानन्दात्मकस्य । उक्तानीति । ब्रह्मवित्पाठके । भक्तशरीरइत्यादिभाष्यं विवृण्वन्ति स्म तस्य फलमिति । ब्रह्मात्मकत्वमिति । जगतो ब्रह्मात्मकत्वेपि पुनर्ब्रह्मात्मकत्वविधानमलौकिकेपि देहे 'आश्चर्यो वक्ते'ति काठकात्पृथिव्यादीनां तन्मात्राणां गन्धादीनां कथनम् । आश्चर्य आश्चर्यवान् आश्चर्यशब्दादर्शआद्यच् । 'आश्चर्यवत्पश्यति 2278