सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2429, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2429

Here is the line-by-line transcription of the text in Devanagari:

भोगयोग्यत्वाच्चोच्यते । एवं सति 'अविभागेन दृष्टत्वा'दिति सूत्रेऽविभागः सोऽप्यविभक्तः, आवृणामिव भोगमात्रसाम्यादेव, न त्वभेदात् । अत एव काठके 'यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतमे'ति मुक्तस्वरूपनिरूपणपरे वाक्ये तादृगिति पदेन साम्यमेवोक्तम्, न त्वभेदः, तथा सति तदेवेति ब्रूयात् । एवं नदीसमुद्र- निदर्शनेपि भेदस्यान्याज्ञेयत्वाय नदीनां नामरूपत्यागकथनं द्रष्टव्यम् । एवं 'तत्त्वमसि' 'अहं ब्रह्मास्मी'त्यादावपि ब्रह्मणः सर्वरूपत्वादंशांशिभावेनैव तादात्म्यमभिप्रेत्य जीवस्यापि ब्रह्माभेद उच्यते, न त्वभेद इत्यभिप्रायेणेत्यवगन्तव्यम् । एवं 'यत्र नान्यत् पश्यती'त्यनेनोक्तो भूमा- न्यदर्शनाभावोऽप्यंशांशिभावावगमादेवोप