अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2434, कुल 2600 में से
संदर्भ में पढ़ें१७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ४ अ० २ सू० ८. सङ्कल्पादेव च तच्छ्रुतेः ॥ ८ ॥ एवं परमाप्तिः केषाञ्चिदेव भवति । तत्र हेत्वपेक्षायामाह । भजनानन्दं दातुं यमेव सङ्कल्पविषयीकरोति, स एवैवं प्राप्नोतीति भगवत्सङ्कल्प एव तत्र हेतुः । तत्र प्रमाणमाह । तच्छ्रुतेः 'नायमात्मे' त्युपक्रम्य, 'यमेवैष वृणुते तेन लभ्य' इति श्रुतिः श्रूयते, अतः स एवान्न हेतुः । श्रुतौ प्रवचनादिनिषेधः कृत इत्यत्राप्येवकार उक्तः । चकारात्तज्जनितैवैतदनुरूपा परमार्तिः संगृह्यते ॥ ८ ॥ भाष्यप्रकाशः। शैवस्तु—तन्मतस्यैव चौरः शैवीः श्रुतिस्मृतीरुप न्यस्य स्वं मतं ततो मिनत्ति । तत्र शिवपदस्य नारायणादिपदवत् परब्रह्मवाचकताया वाराहपुराणे उक्तत्वात् स्वरूपभेदकत्वाभावे कोपि न विरोधः । रूपभेदकत्वे तु नृसिंहपूर्वतापिनोयोक्ताद्रीत्या तत्रोत्कर्षविश्रान्त्यभावस्य प्रहस्ताख्ये वादे निपुणतरमुपपादितत्वान्न तस्मिन् परत्वमिति न तदर्थमधिकं किञ्चिदुच्यते । माध्वास्तु—कर्मनाशाख्यं फलं प्रथमपादे, देवानां मोक्ष उत्क्रान्तिश्च द्वितीयपादे फलम्, मार्गो गम्यं च तृतीये पादे फलम् । एवं त्रयं पूर्वमुक्त्वा चतुर्थस्येन सह परं ब्रह्म प्राप्तानां यस्तत्र भोगः क्रमप्राप्तः, तमत्र पादे वदतीति पदार्थमुक्त्वा, 'सम्पद्याविर्भाव' इत्यत्र 'सम्पद्याविहाये'ति पाठमङ्गीकुर्वन्तोऽविभागसूत्रपर्यन्तं प्रतिसूत्रमधिकरणभेदमङ्गीकुर्वन्तः प्रथमे मुक्तस्य ब्रह्मानति- क्रमेण भोगम्, द्वितीये ब्रह्मप्राप्तस्य मुक्तत्वम्, तृतीये मुक्तप्राप्यस्य परस्य ज्योतिपः परमात्मत्वम्, चतुर्थे च ब्रह्मप्राप्तिं सायुज्यादिरूपामुक्त्वा, तेषां ब्रह्ममुक्तबहिष्ठभोगभोक्तृत्वं प्रतिपादयन्ति । 'ब्राह्मेणे'ति त्रिसूत्रेऽधिकरणे च चिन्मात्रदेहानां भगवत्सायुज्यं प्राप्तानां ब्रह्माङ्गाऽनुगृहीतैः स्वाङ्गै- र्भोगं प्रतिपादयन्ति । तत्रोदासीना वयम् ॥ ७ ॥ सङ्कल्पादेव च तच्छ्रुतेः ॥ ८ ॥ सूत्रमवतारयन्ति एवं परेत्यादि । व्याकुर्वन्ति भजने- त्यादि । स एवेति । वरणरूपः सङ्कल्पः । अत्रापीति । सूत्रेपि ॥ ८ ॥ रश्मिः। ज्यादिरूपेति । आदिना ससम्भ्रमो मोक्षस्तम् । शैव इति । भगवान् शैवः । नृसिंहेति । आदिनाथ- वंशिर आदिस्तत्र ज्ञानेन भक्तेति शिवविशेषणात्तदुक्तरीत्या । भजनीये उत्कर्षविश्रान्त्या । तन्न शिवे । वादे इति द्वितीये वादे । तस्मिन्निति शिवे । तदर्थमिति शिवमतनिवृत्तये । अनतिक्रमेणेत्य- विहायेत्यस्यार्थः । तेषामिति । मुक्तानाम् । ब्रह्माङ्गेति । ब्रह्माङ्गं कारणं कारणमनु पश्चात् कार्या- णीव गृहीतः स्वाङ्गैः मुक्तानामङ्गैः । उदासीना इति । पूर्वव्याख्यानम् ॥ ७ ॥ सङ्कल्पादेव च तच्छ्रुतेः ॥ ८ ॥ भाष्ये । वरणं सङ्कल्पः । वृञ् सम्भक्तौ । तया च । प्रमेयबलं सङ्कल्पः । कॢपू सामर्थ्ये । बलं सामर्थ्यम् । सामर्थ्येन वरणमिति सङ्कल्पकार्ये सङ्कल्पपदं लाक्षणिकम् । बलं भक्तिरिति भाष्यम् । सङ्कल्पविषयो भक्तः विषयविषयिभावः । फलकर्मणोः सम्बन्धः तदनुकूलो व्यापारो भगवन्निष्ठः । एतद्मेव सङ्कल्पविषयं करोतीति भाष्येणोक्तम् । एवं च पुष्टिभक्तिजभगवदावेशे पूर्वसूत्रोक्ते सङ्कल्पो हेतुः । तत्र चतुर्षु आद्य आर्तोऽधिकारी । तदुक्तं 'विरहा- तुरात्मे'त्युद्धववाक्यं तृतीयस्कन्धे । 'ममार्तायाः सखे दर्शय सन्निधि'मिति पञ्चाद्ध्याय्याम् । तदेत- दाहुः । चकारादिति । अनुक्तसमुच्चयार्थकात् । वरणजनितैव । एवकारेण लौकिकविषयालब्धिज- नितत्वयोगव्यवच्छेदः क्रियते । तदनुरूपेति । भगवदानन्दांशनानुरूपा न तु तृष्णी दुःखरूपा तस्या निषेधात् । 'नोत दुःखता'मिति श्रुतौ । दुःखतां दुःखवत्तां पश्यतीत्यन्वयः । परमातिरधिकारः ॥८॥ 2296