सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2441, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2441

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८५ भाष्यप्रकाशः । तौस्थ्यमेव । वस्तुतस्तु तदग्रे 'तस्य ह वा एतस्ये'त्यादिना आत्मतः प्राणादीनामाविर्भावश्रवणात्तद- न्यथानुपपत्त्यैव लयाङ्गीकारः, अतो नानुपपन्न इत्यर्थः । एवमशरीरत्वबोधिकां श्रुतिं व्याख्याय शरीरत्वसाधिकां श्रुतिमाहुः आत्मरतिरित्यादि । तेन तैत्तिरीयसमाप्तौ या दशोक्ता, सा फलानुभवस्य प्रथमावस्थेति बोधितम् । स्वोक्ते पूर्वसूत्रसम्मतिमाहुः जैमिनिरित्यादि । एवं हेतुं व्युत्पाद्य दृष्टान्तं व्युत्पादयन्ति एकस्येत्यादि । दार्शन्तिके योजयन्ति एवमेवेत्यादि । तेन, 'ब्रह्मभावात्तु भक्तानां गृह एव विशिष्यत' इति साधितम् । तथा च भक्तानामेव भोगरूपकार्ये- बलेन सत्रतुल्यत्वम्, अन्येषां तु तदभावादहीनतुल्यत्वमिति भक्ताभक्तव्यवस्थाबोधनाद्भक्तस्य बादरेः पूर्वपक्षाविश्रान्तत्वादयुक्तमपि युक्तम् । जैमिनेस्तु सर्वत्र दृष्ट्या उत्तरकक्षाविश्रान्तत्वा- त्तदुक्तमपि युक्तमिति तस्य तस्य तथात्वबोधनायैव स्वमतकथनमित्यर्थः । मर्यादामार्गीया अपि भगवल्लोक एतादृशदेहेनैव यथाधिकारं चतुर्विधमुक्तिभाजस्तिष्ठन्ति । ज्ञापनेनापि पूर्वोक्तं साध- रश्मिः । धिन्याम् । तस्यां दशायां ब्रह्मणा सह सर्वकामाशनेस्यात्मरतिरित्यादिनोक्तास्यानुभवस्य सूक्ष्मरूपै- र्भावात्तौस्थ्यं नेत्यरुच्या वस्तुतस्तु पक्षमाहुः । वस्तुतस्त्विति । तदग्र इति । अङ्गाराद्देशस्याग्रे । तदन्यथेति । आविर्भावो लीनस्येत्याविर्भावान्यथानुपपत्त्या । अन्यथानुपपत्तिरत्र पूर्वमीमांसोक्ता प्रस्थानरत्नाकरेङ्गीकृता ग्राह्या । अनुपपन्न इति । लयाङ्गीकारो नानुषपन्नः । तैत्तिरीयेति । सामगायनेन । यादृशोक्तेति । यादृश्युक्तेत्यपि । प्रथमावस्थेति । भूमविद्यारूपा । स्वोक्त इति । गोस्वाम्युक्ते आचार्य्योक्ते वा भाष्ये ब्राह्मेणेति पूर्वसूत्रसम्मतिमाहुः । हेतुमिति । अत इति सौत्रं हेतुम् । तथा च बादरायण उभयविधं शरीरमतः भाष्योपपादनादिति सूत्रार्थः । एकस्येत्यादीति । विहितोभयधर्मो शरीराशरीरत्वे । आहेति । व्यासो भगवान् । नियतेति । एककर्तृकत्वेन । एकत्वविवक्षणात् । उपेयुरिति । उप समीपे ईयुः गच्छेयुः कुर्युः आधिदैविकं प्रकटमीयुः । आधि- भौतिकं कुर्युः । उपयन्ति उपगच्छन्ति कुर्वन्ति । सत्रत्वमिति सत्रत्वमुक्तमिति । बहुकर्तृकस्य द्वादशाहीनस्य । बहुकर्तृकत्वं सत्रत्वमिति सत्रलक्षणात् । एवमेवेत्यादीति । पादौ गुल्फौ जङ्घे स्तनौ करौ शिरः हृदिति द्वादशाङ्गशरीरे । आत्मा जीवः । एकरूपत्वमिति । तादात्म्यरूपा- भेदादेकरूपत्वम् । उभयेति । शरीराशरीरत्वे विधेयस्य शरीरस्य तदुभयविधं शरीरम् । तेनेति । श्रीभागवते एकादशे सप्तदशेध्याये ब्रह्मचर्यगृहस्थाश्रमाभ्यामध्यायं समाप्याष्टादशाध्याये आश्रम- द्वयमुक्तम् । तस्मादाश्रमद्वयं गार्हस्थ्यं सन्न्यासश्च मुख्यावितरौ गौणौ । एवं च तेनेत्यस्य द्वयोराश्रमयो- र्मुख्यत्वेन तत्रापि ज्ञानिनो भक्तत्वेन ब्रह्मभावाद्भक्तविशेषत्वेनेत्यर्थः । ब्रह्मभावाद् भूमविद्या- विष्टानन्दानुभवात्पूर्वोक्तात् साधनरूपात् तिरोहिताविर्भावे ब्रह्मभावः । सन्न्यासाश्रमाद्वा । गृहाणां बन्धकत्वादुक्तानामिति विशेषणम् । 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्या- द्गृहस्य पुंस्त्वं स्मार्तम् । विशिष्यत इति । यथानुग्रहो यस्मिन् जीवे स तादृशं तदाविश्य भगव- दानन्दमश्नुत इति । एवमप्युपन्याससूत्रभाष्यात् । एवं पुष्टिमार्गीयाणां फलकथनेन स्मृतेर्मर्यादा- मार्गीयशरीरस्य शरीराशरीरत्वे आहुः । मर्यादेति । एतादृशेनेति । अक्षरात्मकेन । परंत्वेष विशेषः । ज्ञानिनो लोके मर्यादाभक्तास्तु चरणात्मकेऽक्षर इति । कृत्स्नभावात्तु गृहिणोपसंहार इत्यत्राप्युक्तम् । अत एव गीतायां मुक्तौ पारिभाषिकत्यागसन्न्यासौ गृहस्थस्यापि सम्भवतः ब्रह्मचर्यं च । चतुर्विधेति । सालोक्यसार्ष्टिसामीप्यसारूप्यरूपचतुर्विधमुक्तिभाजः । सायुज्यसार्टिसामीप्यानि १. यादृशोक्तेति रश्मौ । २४ ब्र० सू० २० 2303