अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2447, कुल 2600 में से
संदर्भ में पढ़ेंअत्र सर्वेपि पूर्वसूत्रे, तन्वभाव इति पाठमङ्गीकृत्यैवं व्याकुर्वन्ति । 'सङ्कल्पादेवे'ति सूत्रे पित्रादिसमुत्थानमुक्तसङ्कल्पादुक्तम् । स एव सङ्कल्पो द्वादशाहसूत्रस्तःशब्देन परामृश्यते । तेन मुक्तो द्वादशाहवदशरीरः सशरीरश्च सिध्यति । तत्राशरीरस्य यो भोगः, स तन्वभावेपि ब्रह्मसृष्टै- रेव पदार्थैः सन्ध्यवत् स्वाप्निकपदार्थभोगवत् सिध्यति । तनुसद्भावपक्षे तु लीलार्थमीश्वरेण सृष्टै- र्मुक्तेन वा स्वसङ्कल्पादेव सृष्टैर्जाग्रद्वत् बहिर्भुक्त इति । तन्नास्माकं रोचते । 'एवमप्युपन्यासा'दिति सूत्रेऽपहतपाप्मादिसत्यसङ्कल्पान्तानां धर्माणां मुक्तेऽप्यङ्गीकारेण तत्सङ्कल्पादेव तदनुरूपभोगोपपत्तेर्विशेषतस्तदुपपादनप्रयोजनाभावेनैतत्सूत्र- द्वयस्यानतिप्रयोजनत्वप्रसङ्गात् । अथ सूत्रे तथा पाठ इति तदनुरोधेन तथा व्याख्यानमित्यु- च्यते, तदा तु सूत्रे 'तन्वभाव' इत्यत्र तनुशब्दस्याभावशब्देन समासेऽनचि चेति वैकल्पिकं नकारस्य द्वित्वं, तथा तत् नु अभाव इति पदच्छेदेपि, यरोऽनुनासिकेऽनुनासिको वेति नकारद्वित्वमिति तत्त्वभावपदस्य सैद्धान्तिकोऽर्थ एव युक्तः । द्वित्वाभावश्चेत्, तदा 'तन्व- भाव' इत्यत्र सप्तमीसमासमङ्गीकृत्य भगवत्त नौ तदभाव इत्यर्थो वक्तव्यः । भगवता स्वस्वरूप आसुराणामन्यथाभानस्य कारणेन तद्भानस्यावश्यमुपपादनीयत्वात् । अन्यथा आसुरदृष्टेषु सत्यत्वबुद्धौ दैवानां मोक्षप्रतिबन्धापत्तेरिति । तदेतत् प्रागेव ब्रह्माण्डवाक्योपन्यासपूर्वकं विचारितमित्युपरम्यते । ये मायावादिनो मोक्षे भोगं नाङ्गीकुर्वन्ति, तान् प्रति भास्कराचार्यैरेवं दूषणमुच्यते । ससम्बोधं मोक्षं श्रुतिसिद्धमाश्रित्याचार्येणायं विभागो दर्शितः श्रोतॄणामनुग्रहाय, न नास्तिक्य- मवलम्ब्य भ्रान्त्या वा सूत्राणामन्यथार्थत्वं कल्पनीयम् । श्रुतीनां नार्थवादत्वम् । सर्वत्रार्थवादत्व- प्रसङ्गात् । निःसम्बोधे तु मोक्षे न प्रेक्षापूर्वकारी प्रवर्तते । संसारावस्थायां तावद्देवलोकादिषु पर्यायेण सुखतारतम्यं लभते, मुक्तः पुनः सुषुप्तवन्न किञ्चित् । स्वरूपचैतन्यं तु विद्यमानमप्य- सत्तसममेव । न हि तच्चैतन्यान्तरेण संवेद्यते । तस्यैवाभावात् । न च स्वचैतन्यतः संविदस्तु चैत- न्यव्यतिरिक्तसंविद्यनभ्युपगमात् । अभ्युपगमे च भेदप्रसङ्गान्मायावादहानिः स्यादेव । ससम्बोधे रूपलीला इति चेन्न । ईश्वरस्याधोक्षजत्वेनेदमित्थतया मुक्तिशब्दाभिधाप्रवृत्तेर्भाष्ये लीलैव कैवल्यं मुक्तिरूपमित्युक्तम् । 'भक्त्या मामभिजानाती'ति वाक्यादधोक्षजत्वेपि मोक्षत्वमिदमित्थतया भवति ज्ञातम् । तथाप्यन्यशिष्याधिकारेणोक्तं लीलानां मुक्तिरूपत्वम् । मुक्तिलीलावैचित्र्यमाहुः । तत्र प्रवेश इति । व्रजभक्तभावेन सेवायाः फलं नित्यलीलाप्रवेशः इत्यर्थः । समशरीर इति । पित्रादिसमशरीरः । तथा पाठ इति । तन्वभाव इति पाठे । सैद्धान्तिकेति । नापि तत्त्वत्वे तत्त्व- भाव इत्यस्यार्थः । पूर्वापरभाष्यासङ्गत्यापत्तेः । त्वान्तात्प्रत्ययाभाववत् तत्त्वभाव इति विग्रहवाक्यं न स्यात् । तद्भाव इति । मुक्ततन्वभावः । तद्भानस्येति । शुद्धबुद्धमुक्तस्वभावे तत्स्वरूपगोपनाय शुद्धमुक्तदेहभानस्य । असुरेति । देहादिषु । मोक्षप्रतिबन्धेति । 'योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते, किं तेन न कृतं पाप'मिति श्रुतेः । पापसम्भवान् मोक्षप्रतिबन्धापत्तेः । पापाभावस्य मोक्ष- कारणत्वात् । प्रागेवेति । तत्त्वभावसूत्रे । प्रेक्षेति । युक्तिः । युक्तिः पूर्वा यस्येति युक्तिपूर्वः कारः करणमस्यास्तीति युक्तपूर्वककारी । लभत इति । भानन्दमीमांसाया लभते । चैतन्यव्यतिरिक्तेति । १. समशरीर इति प्रकृपुस्तके रश्मौ च पाठः । 2309