अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2456, कुल 2600 में से
संदर्भ में पढ़ेंप्रत्यक्षमुपविश्यत इत्यन्यविषयकव्यापारराहित्यं नोपपद्यत इत्याशङ्क्य, समाधत्ते आधिकारिकेत्यादिना । अत्रेदमुच्यते । 'सोऽश्नुते', 'लोकवत्तु लीलाकैवल्य'मित्यादिभिर्नित्यलीला- मध्यपातित्वं तस्योच्यते । 'नान्यत् पश्यती'त्यादिश्रुतिवशाज् जगद्व्यापारवर्जं भोगकरणं पूर्वसूत्रेणोक्तम् । अथेवं विचार्यते । 'नान्यत् पश्यती'ति प्रकरण एव 'सर्व१* ह पश्यती'ति सर्वविषयकं दर्शनमुच्यते, तत् कथं पूर्वोक्तमुपपद्यत इति । किञ्च । एकस्यैव भाष्यप्रकाशः। स्तादि । ननु भूमविद्यास्थस्य, 'नान्यत् पश्यती'त्यादिवाक्यस्य बलेन भक्तस्याक्षरे ब्रह्मणि जगद्व्यापाररहितो भोग इति यदुक्तम्, तन्नोपपद्यते । यत एतत्प्रकरण एव छान्दोग्ये भक्तस्य जग- द्व्यापारः पठ्यते । स को वेत्यत आहुः 'सर्व१ह पश्यः पश्यती'ति । जगद्विषयकप्रत्यक्षरूपः स इत्यतस्तथेत्याशङ्क्य समाधत्त इत्यर्थः । समाधानांशव्याख्यानाय हेत्वंशस्फुरणे तेनाशङ्कान्तरस्यापि निवृत्तिमालोच्य तमप्यर्थं संगृहीतं प्रकारान्तरेणावतारयन्ति अत्रेदमित्यादि । अत्र अवतरणग्रन्थे, इदं वक्ष्यमाणमधि- कमुच्यते, न तु तावन्मात्रमित्यर्थः । किं तदित्याकाङ्क्षायां आक्षेप्यं विषयमाहुः सोऽश्नुत इत्यादि । तस्येति । भक्तस्य । एवं विषयमनूद्य तत्र विचारः क्रियत इत्याहुः अत्रेत्यादि । अत्रास्मिन् सूत्रे इदमुक्ताभ्यां श्रुतिभ्यां सूत्राभ्यां च यदुक्तम्, तद्विचार्यत इत्यर्थः । विचार- माहुः नान्यदित्यादि । अत्र, नान्यदित्यारभ्य पूर्वोक्तमुपपद्यत इत्यन्तेन पूर्वोक्तैवाश- ङ्कानूदिता । सोऽश्नुत इत्यादिविषयिणीं द्वितीयामाहुः किञ्चेत्यादि । 'सोऽश्नुते', 'स वा एष रश्मिः। तेन नान्यच्छृणोति नान्यत्पश्यतीत्युक्तभाष्येण यथालिखितपाठो न कर्तव्य इति सूचितं तदत्र स्फुटीकृतम् । आहुरीति । मान्यत्वाद्बहुवचनम् । तेन 'अधीहि भगव इति होपससाद सनत्कुमारं नारद' इति । श्रुतिविरोधो न । सर्व१हेति । अनेनापि प्रकाशेन यथालिखितपाठो व्यावर्तितः । शिष्याभिप्रायं वा । सनत्कुमारा नारदं प्रत्याहुरित्यर्थः । ग्रन्थकर्तुरपि सूचयति । तथेति । अन्य- विषयकव्यापारराहित्यं नोपपद्यत इति आशङ्क्येत्यर्थः । हेत्वंशेति । आधिकारिकमण्डलस्योक्तेरिति हेत्वंशस्फुरणे । तेनेति । हेत्वंशेन । आशङ्कान्तरस्य । आशङ्का सर्वविषयकदर्शनवचनेन जगद्व्यापार- वर्जं कथमिति तस्याः शङ्कायाः अन्यत् स एकधेत्यादौ जीवानेकत्वं न सम्भवतीति तत्र लीलार्यां नित्यत्वासिद्धिरूपमाशङ्कान्तरं तस्य । तमर्थमिति । शङ्कान्तरविषयमर्थम् । प्रकारान्तरेणेति । प्रकारः सङ्क्षेपोक्तसूत्रार्थः तस्मादन्यद् विस्तरेण सूत्रव्याख्यानं तेन । अवतारयन्तीति । भाष्यस्यायावतारयन्तीति । स्वपदवर्णनात् । 'सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु'रिति भाष्यलक्षणात् । अवतरणग्रन्थ इति । विस्तरेण सूत्रे व्याख्यातव्य इति शेषः । उच्यत इति । विस्तरायोच्यते । तावन्मात्रं उक्तमात्रमवतरणम् । किं तदिति । वक्ष्यमाणमधिकम् । आक्षेप्यं योग्यं पूर्वपक्षिणा । विषयमिति । उक्ताभ्यां श्रुतिभ्यां सूत्राभ्यां च यदुक्तं तत् । यदुक्तमिति । विषयम् । पूर्वोक्तैवेति । सङ्क्षेपेण सूत्रव्याख्यानायोक्ता । द्वितीयामिति । पूर्वोक्तायां सङ्क्षेपेण सूत्रव्याख्यानायोक्तायामाशङ्कायां विस्तरायाधिकशङ्काम् ।