सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2501, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2501

भवनात् । अक्षरात्मके हृदये मानसीनस्यात्मनः । तत्र च भक्तेर्भवनात् । कामादिति सूत्रे माहात्म्य- ज्ञानयुतेश्वरत्वेन प्रभौ निरुपधिकस्नेहात्मिका विहितेति भक्तिविशेषणादुदाहरणोक्ता सा । माहात्म्यज्ञानं तनुवित्तजा सेवा च सञ्चारिभावास्तत्त्वमस्यादिमहावाक्यार्थभेदज्ञानं 'अन्तरा' सूत्रे भक्तानामधेयम् । अत्र सेवालक्षणस्य विस्तारिकायां टीकायां रतिलक्षणत्वेपि मनःप्रवणता रतिरित्युक्त्या मनःप्रवणता रतिः, चेतः- प्रवणता सेवा, तथा च विभावाद्यभिव्यक्तमनश्चेतःप्रवणता सेवा । अत्र व्यभिचारिणो महावाक्यार्थभेद- ज्ञानस्य सुषुप्तिप्रतिमस्य चेतसा ग्रहात् सुषुप्तिश्चित्तग्राह्या । वित्तं त्वात्मानमेव सुषुप्तौ पश्यत्यन्यदा तु लीनमिति प्रस्थानरत्नाकरात् । 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्र प्रथमस्य तृतीयपादे सुषुप्तिस्त्वकामरूपो भगवान् इति भाष्यम् । एवं चाका