अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2549, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम्। ५३ मदर्पणं' इति गीतायामाहुः समिति । प्रीतस्तदङ्गीकुरु इति वचनव्यक्तेः प्रीतेर्मद्धर्मत्वा- त्कुर्विति परस्मैपदं धातोरुभयपदित्वेऽपि प्रभो इति पूर्ववत् । समर्पणफलमाहुस्तदिति । तत्समर्पणतो भावसेवायांः फलरूपता ॥ ४ ॥ भावसेवा 'भावात्मकत्वाद्वरूपं गुणातीतं सदैव ही'त्यत्र रसो भावो देवादिविषयिण्या रत्याः स्थायिभावत्वात् 'स्थायिभावो रसः स्मृत' इति अङ्गशास्त्रे, भू सत्तायाम् भावे घञ् भावः सत्तात् सदानन्दसेवेत्यर्थः । फलरूपतेतिवचनं प्रत्यहं सेवायाः फलरूपत्वेऽपि पुराणमत एनया सेवया वार्षिकसेवाव्यङ्ग्यत्वपरिहारात् फलसमर्पकत्वेन भावसेवायां वार्षिकायाः फलरूपता नेतरस्याद्ध्यति साधनं फलं वा । रक्षा । पूतनेति । पूतनायां संस्थितायां गोपिकाभिर्यथा कृतम् । तथा रक्षाबन्धनं प्रेम्