अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2551, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम्। १५ हीनमध्यमोत्तमभेदतो व्यस्तैस्तैः पूर्वोक्तैः प्रकारैः सुहृद्भिः सुशोभनैराचार्याभिमतैः हृदैः स्व- रुचिमन्ननशास्त्राभ्यासकृतैः। व्यासस्तु स्वरुच्या कायवाग्भ्यां कृता हीनाधिकारिणी कायवाङ्मनोभिस्तैः सप्रेमैः कृता मध्यमाधिकारिणी तैः दृढप्रेमसहितैः दृढमूल्युत्तमाधिकारिणी लतावृद्धद्वचोत्तमोत्तमाधिका- रिणी, अयं भेदो नातिप्रसिद्धोऽनुग्रहसाध्य इत्युत्तमान्तर्गतमात्रो गृहीतः। 'मुक्तिं ददाति कर्हिचित् स्म न भक्तियोगम्' इति वाक्यादुत्तमोत्तमाधिकारिभक्तिरनुग्रहे सति ददातीति। अत्र फलं ब्राह्मेणेत्यादि- सूत्रोक्तं भगवत्सेवोपयोगिदेहो वैकुण्ठादिषु, अलौकिकसामर्थ्यं तु 'निवेदितात्मा विचिकीर्षितो मे' इति वाक्यादत्यन्तानुग्रहे सति संपादयति । आत्मनिवेदनमात्मनिवेदनपद्धतौ द्रष्टव्यं सप्रकारम् । 'अभि त्वा शूर नोनुमोऽदुग्धा इव धेनव' इत्याद्याः श्रुतयः। त्रिविधं निवेदनम्। आत्मा तु ईश्वरे तस्मा- त्कृतात्मनिवेदनेन विहाय पुरुषोत्तमं न कोपि भजनीयः शरीरं तु गुरुपुरुषोत्तमयोः कार्ये कल्पनीयं नान्यत्र तथा सर्वं धनादिकमपि। यदा निवेदितं शरीरं गुर्बुर्विक्रीणाति भुनक्ति वा कथमपि करोति तदा तस्मिन् शरीरे स्वयं स्वामित्वं न करणीयम् । 'विक्रीतस्य पशोः पुत्र न कर्तव्यो यथा व्ययः । न करोति पुनः शिष्यस्तथा जीवे निवेदिते' इति काठिन्यमस्तीत्यनधिकारिणि न देयम् । 'यस्य देवे परा भक्तिः' 'स इतः प्रेत्यानन्दमयमात्मानमुपसङ्क्रामति' परं विशिष्टं चिकीर्षु पुष्ट- भक्तत्वादिति प्रतिभाति । 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन' इति श्वेताश्वतरन्यायादप्रकाशितानां फलानुपयोगमाशङ्क्य प्रकाशार्थं पवित्र्यद्वारा भावजनकरजोभक्ति स्मरणात्मिकां मार्गरूपार्थप्रकाशद्वारा फलोपयोगार्थमाहुः पित्रित्यादि । पितृपादरजो जातु ह्युत्तमैर्विस्मृतं न यैः । तेषामेव हि मार्गीयं फलिष्यति न चान्यथा ॥ ९ ॥ अन्यथा पितृपादरजोविस्मृतत्वप्रकारेण वर्तमानानां च पुनर्न फलिष्यति तदुक्तं 'यत्पादरजसागत्य यादृग्भावः कृतो मम । तादृशेनैव तद्भावं वर्णयाम्यवशः क्वचिद्'िति भ्रमरगीत- टिप्पण्यां स्वानुभव उक्तः। एकादशे चतुर्दशाध्याये 'पूयेयेतद्घिंरेणुभि'रिति रजसो महदङ्घ्रिसम्बन्धिनः पावित्र्यं प्रति कारणत्वमुक्तम् । एवं प्रवृत्त्यर्थं फलमुपपाद्य बाधकसरत्वे प्रवृत्तिरपि निष्फलातः कालस्य बाधकत्वाभावमनुगुणत्वं विरोधदार्ढ्यं संप्राप्त्यर्थमपि वदन्तो नमनात्मकविरहदशायां वस्तुनिर्देशात्मकं च मङ्गलं ग्रन्थमध्य्येऽष्ट- श्लोक्याहुः श्रीति । श्रीवल्लभो जयति भक्तहितैकबन्धु- राविश्चकार तनयं किल विठ्ठलं यः। तस्यैव पादयुगलं सततं नमामि प्रेम्णा तदस्तु हृदये मम सर्वदैव ॥ १ ॥ वल्लभपदमरारम्भ एव व्याख्यातम् । भक्तानां हितम्भासावेकबन्धुर्बहुल्यबन्धुः । विशेषणप्रति- पादनार्थं ज्येष्ठभ्रातरोनुजस्य स्वनामापि गृहीतवन्तः । विट् ज्ञानं तान् शून्यान् लातीति पितृ- प्रवर्तितपयप्रचारसुविचारक इति नाम । 2413