अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2554, कुल 2600 में से
संदर्भ में पढ़ें५८ | परिशिष्टम् ।
श्रीमदाचार्यपादाम्बजेरेणोर्न शरणं त्यजेत् । तस्यागे महती हानिर्मानुष्यं निष्फलं भवेत् ॥ ८ ॥ ततो ज्ञानानन्तरं ज्ञानाद्धेतोर्वा हरौ, निरोधेच्छुभिः निरोधदानोन्मुखिभिः, श्रुतावात्मनीति सप्तम्या निरोधस्यात्माभिन्नाश्रये बोधनाद्धराविति सप्तमी, युक्तं चैतत्, आश्रयस्य मुख्यत्वात् । प्रार्थ्यमिति 'प्रार्थिते वा ततः किं स्यात्स्वाम्यभिप्रायसंशयादि'ति वाक्यात्प्रार्थना विरुद्धा तथापि 'रतिप्रादुर्भावो भवतु सततम'ति वाक्ये प्रार्थनायां लोडस्वीकाराद्रतिप्रार्थना युक्ता । कृपाविस्तारस्य रतित्वात्, रतिः प्रीतिर्यद्यपि तथाप्यत्र रतिः क्रीडा रमु क्रीडायामिति धातुपाठात् प्रार्थ्यम् । अक्रूरे दासार्पितकृपा 'अप्यङ्घ्रिमूल' इति श्लोके पञ्चत्रिंशाध्याये 'मयि दया उत्पत्स्यत' इति सुबोधिन्यां कृपा सा दासार्पिता, 'प्रणतवत्सल' इत्यस्य 'नतिमात्रेणैव कृपा अभिव्यक्ता भवती'ति सुबोधिन्यां च कृपा सा दासार्पिता पञ्चचत्वारिंशाध्यायेऽक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः । किञ्चिच्चिकीर्षया प्रागादक्रूरप्रियकाम्यये'ति वाक्ये प्रभुपदादुक्ता । 'सर्वेषां हि स्वामी सेवकगृहेऽपि सेवकसंमाननार्थं गच्छती'ति सुबोधिन्यां श्रुतदेवे दासार्पितकृपा । उत्तरार्धे सप्तत्रिंशाध्याये मैथिलस्य गृहवासमात्रं श्रुतदेवस्य तु सन्मार्गोपदेश इति तं विहाय श्रुतदेवोपादानम् । तत्र कृपा तु 'अद्य नो दर्शनं प्राप्तः परं परमपुरुष' इत्यस्य सुबोधिन्यां दर्शनं चक्षुषाद्यैव शास्त्रतस्तु यः शक्तिभिः सङ्गा आत्मसत्तया प्रविष्टः स कीदृश इति मनोरथ एव स्थितः, न तु कदाचिद्दृष्टः, अद्यैव परं दृष्ट इति तद्दर्शनं तु बुद्ध्या बुद्धिमानयं पदार्थाञ्जानातीति प्रत्ययात्सा च कृपयैव भाष्यप्रामाण्याद् अतः श्रुतदेवे दर्शनानु- मितबुद्ध्द्यनुमिता कृपा या सा दासार्पिता । 'स त्वं शाधि स्वभृत्यान्नः किं देव करवाम ते । एतदन्तो नृणां क्लेशो यद्द्वानक्षिगोचर' इत्यत्र सुबोधिन्यां दासत्वात् स्वामिकार्यमेव कर्तव्यमिति । अत आज्ञापयेत्यर्थ इति कथनात् 'देवाः क्षेत्राणी'त्यादिवाक्यादर्चार्चनेऽधिकारो मामूदिति तु न सूच्यते गृहिणोपसंहाराधिकरणभाष्यविरोधाद् अतो ज्ञानिनि कृपामात्रमक्षरोत्तमदर्शनजनकबुद्धिजनकं प्रार्थनीयं प्रार्थ्यन्ते पुष्टिमक्ताक्रूरदृष्टान्तेन पुष्टिमक्ते कृपा पूर्वं प्रार्थिता भाष्यमर्यादार्थं कृपया विज्ञानं 'बुद्धिर्विज्ञानरूपिणी'ति भगवद्वाक्यात् तेन दर्शनमिति । विदुरे दासार्पितकृपा तृतीयस्कन्धे चतुर्विंश्याये 'इति सह विदुरेण विश्वमूर्ते'रित्यत्रोत्तमधिकारिणि विदुरे यथा यथा यस्मिन्नवसरे भगवान्युद्घादिलीलया स्वस्मिन्कृपां कृतवान् एवं विदुरोपि उद्धवं प्रति भगवत्कृपाकार्यं कथयति स्मेति सुबोधिन्यां कृपा या सा दासार्पिता । 'विष्णोर्मूत्यः खमृताथकृतश्वरन्ती'ति उद्धवं प्रति विदुरवाक्यात् । परमाधिकारिणि भगवद्दर्शनजनकबुद्धिजनिका कृपा प्रार्थिता । उद्धवे दासार्पितकृपा पूर्णकरीत्या स्पष्टा एकादशे च स्पष्टा भगवत्प्रवर्तितपथप्रचारसुविचारके भगवद्दर्शन- जनकबुद्धिजनिका कृपा या सा प्रार्थिता । 'भक्त्या जानाति चाव्यय'मिति श्रुतौ भक्त्या ज्ञानकरणत्वेन हेतुत्वेन चोक्