अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2562, कुल 2600 में से
संदर्भ में पढ़ेंगोपवधूपतेः प्राणप्रिये हे राधे यशोदाजिदुक्तिः । तत्र गोपवधूपतेरित्युक्तिः स्नेहेन मुक्तित्वाद्वा । 'यशोदा मुक्तिगेहिनी'ति कृष्णोपनिषच्छ्रुतेः धरातवाद्वा 'यशोदा सा धरामवत्', इति भागवताद् धराया विरुद्धधर्माश्रयत्वम् । किञ्च ग्रन्थकर्ता श्लोकानुपनिबबन्ध । श्लोकास्तु विज्ञस्यादि- ष्ट्येतद्वन्यानां तत्कर्तुस्तूचितमेव । गोपवधूपतेरिति पदं तदीयत्वाद् 'अहं तदीय इत्येषा तद्वार्ता रूपिता परम्' इति त्रिभङ्गललितस्तोत्रन्यायात् । तत्र हेतुमाहुः त्वदित्यादि । तव मुखस्यामोदः सुरभिर्विशेषः तेन सुरभीत्यर्थः । अधिकमिति । भक्तमात्रनिवेदितमश्नाति यद्यपि तथापि नाहं भक्षितवानिति वाक्यादानन्दभुगपि ब्रह्मानन्दामोदेन सुरभि त्वधिकं भुङ्क्ते 'ऋतं पिबन्ता'विति श्रुतेः । तदेवाहुः राधेति । राधाधरसुधापातुः किमन्यन्मधुरायितम् । यन्निषेव्यं तदप्येतन्नामसम्बन्धतो भवेत् ॥ १६ ॥ अन्यन्मधुरवदाचरितं किम्, न किमपीति काकुः । ध्वनेर्विकारः काकुः । एतस्या नाम- सम्बन्धतो मधुरायितं भवेत् । यथा 'व्रजस्त्रीकरयुग्मालम्यत्रे पात्रं च तन्मय'मिति व्रजस्त्रीनाम- सम्बन्धः । अयं भावः । सर्वेषां ब्रह्मत्वेऽपि पुनः 'सर्वेषां ब्रह्मता तत' इति सिद्धान्तरहस्ये ब्रह्मताविधान- मीदृगिति । 'ऋतं पिबन्ता'विति श्रुतेः । एवं विज्ञाप्यात्राङ्गीकारेपीष्टमाहुः प्रियेति । प्रियामुखाम्बुजामोदसुरभ्यन्नमतिप्रियम् । अङ्गीकुरुष्व गोपीश तदीयत्वान्निवेदनम् ॥ १७ ॥ ननु प्रियेत्यादिविशेषणेन पूर्वोक्तब्रह्मतानुवादस्तेनैव योग्यतया भुङ्क्तेत्युपपन्नेऽङ्गीकुरुष्वे- त्यङ्गीकारस्य किं प्रयोजनमिति चेन्न । एतादृशब्रह्मत्वेऽपि वरणरूपाङ्गीकारस्यावश्यकत्वात् । तदुक्तं 'विद्यैव तु निर्धारणात्' इति सूत्रभाष्ये 'नायमात्मेति श्रुतिरितरसाधननिषेधपूर्वकं वरणस्य साधनत्वमुक्त्वे'त्यादि । अङ्गीकुरुष्वेत्यात्मनेपदेनाङ्गीकारफलं भक्तमनोरथपूर्तिरात्मगामिनी । तदीयत्वादिति स्वस्य योग्यता । निवेदनमिति अर्शआद्यच् निवेदितमित्यर्थः । 'सर्वतोऽक्षिशिरोमुख'मित्युक्ते कस्मिंश्चिज् आस्य इत्याकाङ्क्षायां नवलास्ये भक्तिमार्गमर्यादया- ङ्गीकृतं भोज्यमन्नं भुङ्क्तेत्याहुः निजेति । निजास्यनवलास्येऽस्मिंश्चारुभोज्यं मदर्पितम् । भुङ्क्ष्व श्रीगोकुलाधीश स्वाधिव्याधी निवारय ॥ १८ ॥ सर्वत आस्येषु निजे आस्ये तत्रापि नवं भक्तेच्छयाधुना प्रकटं लास्यं यत्र तदपि प्रत्यक्षं साक्षात्कृतं तस्मिन् भुङ्क्ष्व, न तु घर, 'तत्तदत्तुमनुप्रियते'ति बृहदारण्यके सर्वाश्रयस्योक्तेः । अयं तु भक्तिमार्गाश्रयः । भक्तस्त्वाध्यात्मिकादित्रितयविदाश्रयः । अत ऊचुः स्वाधीति । पूर्वोक्तभक्तेच्छया स्वस्यात्मनो निवर्तनीयत्वेन भक्तेच्छाकालिकौ आधिर्मनःपीडा व्याधिः शरीरस्य तौ निवारय । ननु मूर्ध्नि तावच्छक्यवचनावित्यत आहुः गवीति । गोकुलस्य पुष्टिमक्तौ स्वीकृतसाधीशः पुष्टि- रक्षकस्तस्य सम्बोधनम् । पुष्टौ क्षुत्पिपासादि ज्ञापयतीति । स्वीयानां आधिव्याधी इति वा । 'उत्कर्षश्चापि वैराग्ये हरेरपि हरिर्यदी'ति सुबोधिनीकारिकाया वैराग्योत्कर्षवतां भक्तानां आधिव्याधी भवतः । लौकिकापाधिव्याधी वा । १. अर्शआद्यादिराकृतिगण इत्याधुनिकाः । 2424