अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2579, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम्। ८३ वाक्यम्। ‘भक्तिमार्गे हरेर्दास्यं धर्मार्थो हरिरवे हि। कामस्तस्य दिदृक्षैव मोक्षः कृष्णस्य चेद् ध्रुवम्’ इत्याचार्यकारिका। एतावदिति। एतावदेव विज्ञाप्यं सर्वथा सर्वदैव मे। स्वामीश्वरोसीङ्गितं ते क्षुद्रोऽहं न विदामि हि॥ ७३॥ इङ्गिताज्ञाने सेवा न संभवति। भगवदीयत्वस्य च पुष्टिमार्गीयमोक्षत्वादेतावदेव विज्ञा- प्यमन्यत्साधनसाध्यमिति। विप्राय गां ददातीत्यत्र स्वानुमतिप्रकाशनवत्। विज्ञापनद्वारा स्वानु- मतिः प्रकाशितात्र। गोवत् सर्वात्मभावदासं दास्यतीति सर्वथा सर्वेषु साधनसाध्यतदितरेषु प्रकारेपु। सर्वदा सर्वकालेष्विापत्संपत्स्वपि। तत्तत्सेवाकाल इङ्गितं ‘इङ्गितं गतिचेष्टयोः’ इति विश्वात्। चेष्टायाः कालत्वात्। क्षुद्रोऽल्पोश इति यावत्। ‘क्षुद्रः स्यादधमक्रूरकृपणल्पेषु वाच