अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2585, कुल 2600 में से
संदर्भ में पढ़ें[Header] परिशिष्टम् । ८९
विज्ञापनामाहुः प्रातरिति । प्रातः कुञ्जगृहाद्बहिर्यदि समागत्य स्थिता त्वं भवस्य- म्भोजाक्षि ददासि चर्वितमिदं चाकार्य हस्तेन तु । ताम्बूलस्य यदा पुनस्त्विह सच्छिद्रस्य मुक्त्यापि च कार्यं किं सततं प्रसीदसि यदि त्वं स्वामिनीत्थं तदा ॥ ९४ ॥ हस्तेनाकार्य सच्छिद्रस्य मम । सच्च छिद्रं जीवरूपं यस्य देहादिसङ्गस्य । पुष्टिफलस्यात्य- न्तानुग्रहसाध्यस्य मुक्तजीवापेक्षाभावेऽपि मार्गररीत्या ज्ञानिनो मर्यादाभक्तस्य वा पुष्टिमक्त्युक्तेर्न दोषः । मुक्तस्यापि कार्यं च किम्, न किमपीत्यर्थः । 'तदपीतेः संसारव्यपदेशा'दिति व्याससूत्राद् अपीतेर्मोक्षस्य । त्वमित्थमहोरात्रं सततं निरन्तरं प्रसीदसि । ननु सायं सेवां विधाय न किञ्चित् कृत्यम्, प्रातः पुनस्ताम्बूलचर्वितग्रहणमिति कथमहोरात्रं सततं प्रसीदसीत्युक्तमिति चेन्न रात्रौ ताम्बूलचर्वितग्रहणानन्दिना स्थितं निद्रा तु सेवायामालस्याभावायेति सततमेवेति । ननु संसारवन्मुक्तेरपि हेयत्वं यत्र तादृशं चेत् पुष्टिमार्गीयं तत्त्वम्, तदा मुक्तेः पुरुषार्थत्वबोधिकायाः श्रुतेः प्रतारकत्वमापततीति तद्बोधकप्रमाणानां तत्स्तुतिमात्रपरत्वमिति चेन्न 'सूक्ष्मं प्रमाणत' इत्यादिसूत्रेऽस्याः शङ्काया निरासात् । एतावती श्रीगोपीनाथजितां पद्धतिरूपा कृतिः । ननु सगुणं ब्रह्मेदम्, न तु निर्गुणमिति चेत् तत्राहः प्रीति । श्रीवल्लभाचार्यमते फलं तत्प्राप्तव्यमत्राव्यभिचारिहेतुः । प्रेमैव तस्मिन् नवधोक्तभक्तिस्तत्रोपयोगोऽखिलसाधनानाम् ॥ ९५ ॥ निर्गुणं ब्रह्माखिलसाधनान्तर्गतशमाद्युपेतस्याध्यात्मिकचित्तशुद्धिमतो ज्ञानफलमक्षरम्, सगुणं च धारणाश्रयो विराडात्मा, स च 'ततो विराट्जायते'ति श्रुतेः पुरुषावतारः । 'अतो ज्यायांश्च पूरुष' इति श्रुतेः । पुरुषस्तु ततो ज्यायान् उभयव्यपदेशाधिकरणोक्तो भक्त्यैकलभ्यः 'यमेवैष वृणुत' इति श्रुतेः । अतो निर्गताः प्राकृता गुणा यस्मात् तन् निर्गुणमितीदं निर्गुणमेव रूपम् । तदुक्तं 'मन्निष्ठो निर्गुणः स्मृतः' इति भगवन्निष्ठस्य निर्गुणत्वे भगवतो निर्गुणत्वे किमु वक्तव्यम् । यत्तु विश्वकोशे प्रकृतिपदं परमात्मनि प्रयुक्तम्, तदपि 'प्रकृतिमगन् किल यस्य गोपवध्व' इत्यत्र प्रकृतिपदस्य स्वरूपपरत्ववत् स्वरूपे प्रयुक्तम् । यद्वा । एतादृशफलप्राप्तिः कुतः साधनादित्याकाङ्क्षायामाहुः प्रीति । फलं तत्प्राप्तव्यम् । 'एतेन स्वरूपस्यैव फलत्वमुक्तं भवतीति मुख्यः सिद्धान्तः सूचितो भवती'त्यादि 'आदित्यादिमतयश्चाङ्ग उपपत्ते'रिति सूत्रभाष्यात् । प्रेमैवेति । साधनाध्यायोपान्त्ये 'श्रुतेश्चे'ति सूत्रे 'भक्तिरहसमजनं तदि- हामुत्र फलभोगनैराश्येनैवानुष्मिन् मनःकल्पनमेतदेव च नैष्कर्म्य'मिति श्रुतिरुदाहृता । मनःकल्पनं प्रेमापरपर्यायमित्युक्तं प्राक् । नवधोक्तेति वाक्यान्वयाधिकरणे उपपादितम् । तत्रोपयोगो नवधामक्तावुपयोगः । उपासनायाश्चित्तशुद्धिद्वारा भक्तावुपयोगो भाष्ये ज्ञान उपयोगेपि भक्तावेवो- पयोगो भक्तेर्ज्ञानव्यापारत्वात् । एवं साङ्ख्यं योगश्च स्वतो मुक्तिसाधकौ भवतः । अखिलसाध- नानां धर्मादीनामित्यर्थः । एतच्च 'सर्वापेक्षा च यज्ञादिश्रुतेरश्वव'दिति सूत्रभाष्ये निरूपितम् । 'ननुक्तं मर्यादामुक्तिफलं पुष्टिमक्तिफलं केन इत्यपेक्षायां तद्विशेषसर्वात्मभावेनेत्याहुः तत इति । ततो यदिन्दीवरसुन्दरराक्षीधृतस्य वृन्दावननन्दितान्हेः' । सर्वात्मभावेन सदास्थलास्यामस्त्यानिशं सानु फलानुभूतिः ॥ ९६ ॥
[Footnotes] १. भवेरितिपाठः । 12 परि० 2447