अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 259, कुल 2600 में से
संदर्भ में पढ़ेंशङ्क्यम् । तत्रार्थज्ञानरूपफलायाक्षरग्रहणरूपाध्ययनस्य विधानात् फलस्याविधेयत्वात् । किंच । नियोगविषयभूतमात्मज्ञानं यद्यनुत्पन्नं तदा यागवत् साध्यत्वाभावाद् विषयत्वासिद्ध्या तद्विषयक- नियोगस्यासिद्धिः । यदि च श्रवणाद्युत्पन्नं तदा श्रवणादिनेवात्मज्ञानसिद्धेः किमन्तर्गडुना नियोगेन । नच फलार्थं तदपेक्षा । 'तमेव विदित्वा' इति श्रुतौ नियोगनिरपेक्षाज्ज्ञानादेव मुक्तेरुक्त- त्वात् । किंच । ज्ञाननियोगयोः परस्परसंबन्धे वाक्यानानर्थक्यात् संबन्धोऽवश्यं वक्तव्यः । स च गुणप्रधानभावेनैव दृष्ट इत्येकस्यावश्यं प्राधान्यं वक्तव्यम् । तद्यदि ज्ञानस्येत्युच्यते तदा नियोगस्य वाक्यार्थतया प्राधान्यं सर्वत्र यत्तत्सिद्धांतं तद्धीयेत । यदि नियोगस्यैव तदुच्यते तदा ज्ञानस्य नियोगार्थत्वान्मुक्त्यर्थत्वं न स्यात् । तस्योभयार्थत्वे प्रमाणाभावात् । नच नियोगो मुक्त्यर्थः । अश्रुतत्वात् । तमेव विदित्वेति ज्ञानस्यैव साक्षादुद्देशेन श्रुतत्वादिति । एतदग्रे च, यो रामा- नुजमतोपन्यासोऽस्माभिः द्वितीयःपूर्वपक्ष उक्तो, यद्यपि 'शास्त्रयोनित्वात्' इत्यादिना, यच्च तृतीय उक्तो यद्यपि वेदान्तवाक्यानामित्यादिना, तदुभयमुपन्यस्य ततः पूर्ववदेव सृष्टिवाक्यप्रभृतीनां सम्य- गन्वयः समन्वय इति समन्वयपदार्थमुक्त्वा युक्तिरेवमाहुः । नच तेषां ब्रह्मपराणामर्थान्तरकल्पना युक्ता । श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । नच कार्य एव प्रामाण्यं प्रतिपत्तुं युक्तम् । स्वरूपाव- बोधेऽपि प्रामाण्यस्याविशिष्टत्वात् । अपौरुषेयत्वस्यैव प्रामाण्ये तन्त्रत्वात् । नचाग्निहोत्रादिवाक्येषु कार्यावगतिः प्रामाण्ये तन्त्रमिति शङ्क्यम् । तस्य चैत्यवन्दनादिवाक्येऽपि तुल्यत्वात् । अथापौ- रुषेयत्वे सत्यनपेक्षत्वं तन्त्रमिति विभाव्यते । तदा तु वेदान्तेऽपि तस्य तुल्यत्वात् स्वरूपपर- त्वेऽपि प्रामाण्यमक्षुण्णमेव । किंच । पदानां स्वार्थप्रत्यायनेऽनपेक्षत्वं लोकवेदसाधारणम् । वाक्यानां तु लोके परापेक्षमेव प्रामाण्यम् । अन्यथा सपूपं तिष्ठति पश्येत्यादीनामपि तत् स्यात् । मन्तव्य इत्यादिः । दर्शनस्य प्रत्यक्षेतरत्वादिति भावः । विधानादिति न तु ज्ञानस्य विधा- नात् । फलस्य ज्ञानस्य । अनुत्पन्नमिति श्रवणादिभिरित्यर्थः । किंतु सिद्धमिति भावः । श्रवणादिनेति विधिविषयेण । आत्मज्ञानसिद्धेरौषधफलवत् । अन्तरिति व्यर्थं न द्रष्टव्य इति । नियोगेन विधिना । तदपेक्षेति नियोगापेक्षेत्यर्थः । नियोगेत्यादि विदित्वेत्यत्र लिङ्- लोड्तव्यादीनां विरहेण तथेत्यर्थः । असंबन्ध इति संबन्धः सहोच्चारणं असंबन्धोऽसहोच्चारि- तत्वं तस्मिन् सति । आनर्थक्यमप्रामाण्यं तस्मात् । दृष्ट इति धवखदिरौ छिन्धीत्यत्र धवखदिरादिव्यतिरिक्तस्थले दृष्ट इत्यर्थः । धवखदिरयोर्गुणप्रधानभावाभावात् । मुक्त्यर्थ- त्वं ज्ञानस्य नियोगस्य तद्विषयतेत्याशङ्क्य निषेधन्ति न च नीत्यादि । निषेधे हेतुमाहुः अश्रुतेत्यादि । तदुद्देशेनेति मुक्त्युद्देशेनेत्यर्थः । पूर्ववदिति रामानुजसिद्धान्तवदित्यर्थः । युक्तिरिति धर्मे (ब्रह्मणि) एव समन्वये युक्तिरित्यर्थः । अपौरुषेयत्वस्यैवेति एवकारेण कार्यावगतिव्यवच्छेदः । तन्त्रत्वं प्रयोजकत्वं तस्मात् । कार्यावगतिरिति जुहुयादिति होमे कृतिसाध्यत्वावगतिः । तस्येति कार्यावगतिरूपतन्त्रस्य चैत्यवन्दनं कुर्यादिति वाक्येपीत्यर्थः । स्वरूपेति स्वरूपावबोधकत्वेपीत्यर्थः । परापेक्षमिवि वाकाङ्क्षायोग्यतासंनिध्यपेक्षमित्यर्थः । स्फुटकपदार्थसत्त्वापेक्षं वा । सपूपमिति पश्य मृगो धावतीतिवदन्वयः । तत्स्यादिति प्रामाण्यं