अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2591, कुल 2600 में से
संदर्भ में पढ़ेंक्षुधितो भविष्यतीति शय्यानिकटे भोगं स्थापयेति गोपीमाज्ञापयन्ती तद्द्वारा भोगं धारयति तद्भावेन धृतभोगे प्रीतिं कुर्वित्याहुः यशोदाया इति । यशोदायाः स्तन्ये तदनु नवनीते व्रजगवां विहारे दध्यन्ने द्विजयुवतिदत्ते बहुगुणे । तथा मित्रान्नाशासे पृथुकवरमुष्टी मुरहरे यथा प्रीतिस्तां मे प्रकटय सुनैवेद्यनिचये ॥ ५ ॥ पूर्वश्लोकव्याख्यानेन व्याख्यातप्रायमेतत् । मित्रात्सुदाम्नः पृथुकवरमुष्टौ पृथुकः खाद्यभेदस्त- त्सम्बन्धिनी वरा मुष्टिस्तस्याम् । यथेति यशोदादत्तत्वेन प्रकारेण उभयत्र स्ववृत्तित्वेन प्रकारेण 'वयं गोवृत्तय' इति वाक्याद् द्विजपत्नीदत्तत्वेन प्रकारेण मित्रदत्तत्वेन प्रकारेण । सुनैवेद्यं तया दत्तम्, तस्य निश्चयः शरदुत्सवादौ । प्रीतिकरणं विज्ञाप्य भोजने कृपाकरणे विज्ञापयांबभूवुः विदुरस्येति । [