अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 272, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १८४ तस्मात् पूर्वमीमांसानभिज्ञाः क्रियापरत्वं सर्वस्यापि वेदस्य वदन्तो मूर्खा भाष्यप्रकाशः। दर्शनश्रुतीनां स्वार्थे प्रामाण्यमकल्पमिति पूर्वकाण्डस्यापि सिद्धार्थपरत्वमेव । नच जुहुयाद् यजेतेत्यादीनां साध्यकृतिबोधकपदानां व्याकोपः । सिद्धस्य कर्मणः प्रकारज्ञानपूर्वकं करणे फलसंबन्धं बोधयता विद्वद्वाक्येनातिदेशसिद्ध्या कृतेः सिद्धतुल्यत्वेन साध्यकृतिव्यङ्ग्यस्य सिद्धस्यैव धर्मस्य तत्र विवक्षिततया बालोपच्छन्दनायोक्ते साध्यार्थे तात्पर्याभावनिश्चयात् । एकत्र दृष्टः शास्त्रार्थोऽपरत्रापि तथेति न्यायेन विद्वद्वाक्यशून्यस्थलेऽपि तथाऽवसायाच्च । अतः पूर्वकाण्डस्य साध्यार्थपरत्वमयुक्तमेव । उत्तरकाण्डस्य तु ज्ञानादिप्रतिपादकत्वेऽपि ज्ञानोपास- नादीनां विषयभूतब्रह्मणैव स्वरूपलाभेन ज्ञानादिभिर्ब्रह्मण एव प्राप्यतया फलत्वेन च तस्यैव शेषित्वम् । पूर्वकाण्डोक्तफलस्याप्येतस्यानन्दस्यान्यानीतिश्रुतेस्तदंशत्वाच्च । कर्म फलार्थत्वादि- ति न्यायात् । इदं फलत्वमप्युपाख्यानगम्यमिति । तदेतदुक्तं नहीत्यादिना । सिद्धमाहुः तस्मादित्यादि । यस्मादुक्तरीत्या विचारे न सर्वस्याम्नायस्य क्रियार्थत्वं, न वा पूर्वकाण्डस्य साध्यार्थपरत्वं तस्मात् ते तथेति तद्वाक्येन शास्त्रयोनित्वव्याकुलीभावाभावात् पूर्वपक्षोऽसंगत रश्मिः । ह्यादि । तत इति अर्थवादानां स्वार्थप्रमितिजनयतामेव स्तावकत्वादित्यर्थः । इतीति इति हेतो- स्तत्र साध्यस्य दर्शनायोगेन सिद्धस्य कर्मणो दर्शनात्तथेत्यर्थः । कृतिश्चेत्यादि भाष्यं विवरीतु माहुः न चेत्यादि । साध्यकृतीति पुरुषनिष्ठा शाब्दीभावनासाध्यार्थीभावनेत्यर्थः । अतिदेशोत्पादि । अन्यत्रैव प्रतीतायाः कृत्स्नायाः धर्मसन्ततेः । अन्यत्र कार्यतः प्राप्तिरतिदेशोऽभिधीयते ॥ प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मप्रवेशो येन स्यात् सोऽतिदेश इति स्मृतः ॥ इति द्विधालक्षितातिदेशस्यान्यत्रामिहोत्रे प्रतीतायाः प्रकारज्ञानपूर्वककरणरूपायाः धर्मसन्तते- रन्यत्र जुहुयात् सोमेन यजेत इत्यादावतीन्द्रिययागादौ कार्यतः फलसंबन्धार्थं प्राप्तेः सिद्धानश्वरस्य फलासंबन्धादाख्यातबोधितकृतेः सिद्धतुल्यत्वेनेत्यर्थः । 'यज्ञो वै विष्णुः' इतिश्रुतेः सिद्धतुल्यत्वाभावे तया विष्णुद्रव्यसंबन्धरूपातीन्द्रिययागोऽभिव्यक्तो न स्यात् । 'स्वयमेवात्मनात्मानम्' इतिवाक्य- विषयत्वात् । अतिदेशे विद्वद्वाक्यं प्रमाणमुक्तं 'परोक्षवादो वेदोयम्' इत्यादि । सिद्धस्येति अतीन्द्रियस्य । तत्रेति जुहुयात् यजेत इत्यादावित्यर्थः । किमत्रातिदेशक मित्यपेक्षायामाहुः एकत्रे- त्यादि तथाच पूर्वत्रापि न्यायेनातिदिश्यत इत्यर्थः । अत इति फलसंबन्धसाहेयत्वादित्यर्थः । तस्यै- वेति ब्रह्मण एवेत्यर्थः । पञ्चप्रकृतियागानामात्मसुखमेव फलं न स्वर्गलोकाख्यं 'अक्षय्यं ह वै चातुर्मास्य- याजिनः सुकृतं भवति' इति श्रुतेः । इदं यथा तथा प्रतिपादितं सर्वनिर्णये इति तद्बुद्धिकृत्याहुः पूर्व- काण्ड इत्यादि । कर्मेत्यादि 'कर्मण्यपि जैमिनिः फलार्थत्वात्' इति सूत्रसार्थकयनमिदम् । एतच्च तृतीयाध्याये चिन्तितम् । इवमित्यादि । आनन्दस्य फलत्वमिदमुपनिषद्वम्यमिति तन्न्यायेन न मिथ्या- र्थत्वमुपाख्यानानामित्यर्थः । तदेतदिति कारिकाव्याख्यानव्याख्येयमित्यर्थः । ते इति पूर्वमीमांसा- भिज्ञा इत्यर्थः । भाष्ये । मूर्खा इति बन्धहेतौ प्रवृत्तत्वेन बन्धाज्ञानान्मूर्खा इत्यर्थः । 'पण्डितो १. कृतेश्चेति पाठः २. धर्मोपदेशो येन इति पाठः । २४ ब्र० सू० २० 185