अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 278, कुल 2600 में से
संदर्भ में पढ़ेंनच प्रतिज्ञागर्भितहेतुत्वम् । अनुपयोगात् । गौणमुख्यभावे परं विवादः । भाष्यप्रकाशः। पुरुषार्थभूतस्वानवधिकातिशयानन्दस्वरूपस्य ब्रह्मणोऽभिधेयतयान्वयाच्छास्त्रप्रमाणकत्वं सिध्यत्ये- वेति व्याचक्षुः । तत्र शांकरे व्याख्याने यथावस्थिते हेतोः स्वरूपासिद्धत्वम् । अतस्तत्रापि शास्त्र- पक्षकमेवानुमानं वक्तव्यम् । ततश्च वेदान्तशास्त्रं ब्रह्मस्वरूपस्य प्रतिपादकं, तद्वाक्यानामे- तदर्थप्रतिपादने समनुगतत्वात् यदीयं वाक्यं यदर्थप्रतिपादने तात्पर्येण समनुगतम्, तच्छास्त्रं तस्यार्थस्य प्रतिपादकम् । क्रियार्थप्रतिपादकपूर्वकाण्डवदित्यनुमानं मतत्रयेऽपि कर्मवादिवारणाय प्रयुक्तमिति फलति । तत्रेदं विवेचनीयम् । किमयं हेतुरविप्रतिपन्नः सिद्ध उत साध्यः । तत्राविप्रतिपन्न इति तु न वक्तुं शक्यम् । तथा सति पूर्वपक्षस्यैवानुत्थानप्रसङ्गात् । नापि सिद्ध