अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 296, कुल 2600 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ प्रथमोऽध्यायः । एवं ब्रह्मजिज्ञासां प्रतिज्ञाय किं लक्षणकं ब्रह्मेत्याकाङ्क्षायां जन्मादिसूत्रद्वयेन वेदप्रमाणकं जगत्कर्तृ समवायि चेत्युक्तम् । एवं त्रिसूत्र्या जिज्ञासालक्षण- विचारकर्तव्यता सिद्धा । भाष्यप्रकाशः । अतः परं प्रस्तोष्यमाणग्रन्थावतरणाय पूर्वोक्तस्य शास्त्रार्थसंग्रहरूपत्वं बोधयन्तः तद- र्थमनुवदन्ति एवं ब्रह्मेत्यादि । तेन सिद्धमाहुः एवं त्रिसूत्र्येत्यादि । कर्तव्यतापदस्य जिज्ञासा- दिपदैः प्रत्येकं संबन्धः । सिद्धेति सूचिता । तथाच पूर्वसूत्रे जिज्ञासापदमहिम्ना ज्ञाने- रश्मिः । अतः परं चिद्रूपेऽव्याप्तिवारकं प्रकृतिपरमाण्वादावतिव्याप्तिवारकं च सप्तसूत्रमीक्षत्यधिक- रणभाष्यमाक्षेपसंगत्या पूर्वमवतारयन्ति अतः परमित्यादि । संगतिस्तु पूर्वपक्षभाष्ये स्फुटी- ष्यति 'क्रियाशक्तिज्ञानशक्ती संदिह्येते परस्थिते' इति भाष्यकारिकाया ज्ञानशक्तिसंदेहोत्र । त्रिसू- त्र्येति । करणत्वबोधकतृतीयानुरोधादत्र द्वन्द्व इति सूचयन्त आहुः कर्तव्यतेत्यादि । प्रत्येक- मित्यादि । द्वन्दान्ते श्रूयमाणत्वादिति भावः । जिज्ञासासूत्रे कर्तव्यपदानध्याहाराज्जन्मादिसूत्रे च लक्षणपदानुक्तेः समन्वयसूत्रेपि कारणविशेषविचारानुक्तेराहुः सूचितेति । सूचकपदेन सिद्धेत्यर्थः । साचेयं नार्थव्यञ्जना किंतु शब्दव्यञ्जनेत्याहुस्तथाचेत्यादि । जिज्ञासापद- महिम्नेति । अयमर्थः । यथा— 'भद्रालमनो दुरधिरोहतनोर्विशाल- वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्' । इत्यत्र भद्रालमनोऽनाक्रमणीयमूर्तेः, विस्तीर्णे वंशे कुले उन्नतिरम्युदयो यस्य, कृतः शरसंग्रहो येन, अनुपप्लुता मण्डूकषद्गतिर्यस्य, वैरीनिवारकस्य, एतादृशस्य यस्य राज्ञो हस्तः सततं दानोदकसेक- सुन्दरोऽभूदिति मुख्यो वाच्योर्थः । इदानीं व्यङ्ग्योर्थः । अत्युन्नतयाऽनाक्रमणीयस्य, विशाला पृष्ठवंशस्योन्नतिर्यस्मिन्, कृतभ्रमरसंग्रहस्य, अनुपप्लुतगतेः, एवंविधस्य परवारणस्य, पर उत्कृष्टो वारणस्तस्य, हस्तः शुण्डादण्डः, मदोदकसेकसुभगोभूदिति । अत्र व्यञ्जनया गजप्रतीतिः । राज्ञो वाच्यत्वस्य प्रकरणनियतत्वात् उक्तव्यञ्जनाद्वारा व्यञ्जकशब्दं लक्षयति । शब्दसार्थविशेषयुक्तस्य व्यञ्जकत्वादयोपि सहकारित्वेन व्यञ्जको बोध्यः । तद्वत्प्रकृतेपि । तथाहि । १७ प्र० सू० २०