अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 307, कुल 2600 में से
संदर्भ में पढ़ें२१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० ४ आहोस्विद् विरोधपरिहारेण शक्यत इति । किं तावत् प्राप्तम् । न शक्यत इति । कुतः । ज्ञापनार्थं प्रमाणानि सन्निकर्षादिमार्गतः । सर्वथाऽविषयेऽवाच्येऽव्यवहार्ये कुतः प्रमा ॥ ऐहिकामुष्मिकव्यवहारयोग्ये हि पुरुषप्रवृत्तिः । प्रवृत्त्यर्थं हि प्रमाणानि । ब्रह्म पुनः सर्वव्यवहारातीतमिति । नन्वेतदपि वेदादेवावगम्यत इति चेत् तर्हि भाष्यप्रकाशः । विधिकोटिस्तु स्फुटैव । पूर्वपक्षयुक्तिं गृह्णन्ति ज्ञापनार्थमित्यादि । सन्निकर्षादिमार्गत इति । आदिपदेन सहकारिणि । मार्ग उपायः । सर्वथाऽविषय इति स्वप्रकाशत्वेन मनो- निवृत्तिश्रुत्या च सर्वप्रमाणाविषये । अवाच्य इति वाङ्निवृत्तिश्रुत्या सत्यज्ञानादिपदैरपि लक्ष्यत्वादवाच्ये । अव्यवहार्यत्वं विभजन्ते ऐहिकेत्यादि । व्यवहारो नाम मनो