अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 310, कुल 2600 में से
संदर्भ में पढ़ेंविशेषणस्वरूपपरिनिष्ठायै विशेष्यम् । अव्यभिचरितं हेतोः साध्यमित्यलक्षणम् । व्याप्तेर्हेतुधर्म- त्वात् । कथंचिद्व्यङ्ग्यभूतत्वेन व्यवह्रियमाण आधेयोऽर्थो हेतुः । न चैवमव्याप्तिः । पर्वतीयधूमे महानसीयवह्निसामानाधिकरण्याभावादिति वाच्यम् । हेतुसाध्ययोर्हेतुतावच्छेदकसाध्यतावच्छेदकताभ्यां विशेषणीयत्वात् । न च धूमावयवेषु धूमसत्त्वाद्वह्नेश्चासत्त्वादन्वयव्यभिचारः । समवा- यसंबन्धेन वह्न्यभाववति महानसादौ धूमसत्त्वाद्व्यतिरेकव्यभिचारश्च शङ्क्यः । हेतुतावच्छे- दकसाध्यतावच्छेदकसंबन्धावच्छिन्नत्वाभ्यामपि तयोर्विशेषणीयत्वात् । नाप्येतत्क्षणीये धूमे पूर्व- क्षणवृत्तित्वविशिष्टवह्निसामानाधिकरण्याभावाद्व्याप्तिरिति वाच्यम् । तत्र वैशिष्ट्यानवच्छिन्नत्वस्यापि विशेषणीयत्वात् । वस्तुतस्तु सिषाधयिषोदयानन्तरं हेतुसाध्यभावेन ततः पूर्वं