भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 317, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 317

२२८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० ४ रूपत्वात् पुरुषार्थासाधक एव । तर्हि शब्दमात्रस्य कथं ग्रहणम् । वेदव्याख्या- तृवाग्विषयत्वादिति ब्रूमः । भाष्यप्रकाशः । इत्यस्ति तद्बोधनेऽपि लोकापेक्षेति । तदभावे तदपि न बुध्येत । अथ तत्र प्रसिद्धान्यपि पदादीनि वैदिकान्येवेति न दोष इति चेत् तर्ह्यत्रापि व्यवहारं वैदिकमेवानुसंधत्स्व । इदानीं विधीयमानेऽपि तस्मिन् भगवता, 'मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् । एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति' ॥ इति श्रीभागवते कथनात् । अतो धर्मब्रह्मबोधन इव वैदिकप्रपञ्चबोधने आकृतिमात्रार्थं लोकापेक्षायामपि न दोष इत्यर्थः । तदेतदुक्तं, सिद्धमेवेत्यन्तेन । नन्वेवं सति लौकिकव्यव- हारस्याप्यादरे को दोष इत्यत आहुः लौकिक इत्यादि । एकादशस्कन्धे, 'सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः । व्यवहारः सन्निपातो मनोमात्रेन्द्रियासुभिः' ॥ इति भगवता प्राकृतगुणान् प्रकृत्य मनआदिव्यवहारस्य सन्निपातत्वकथनाल्लौकिकव्यव- हारस्य सन्निपातकार्यत्वेनाऽप्रामाणिकत्वात् पुरुषार्थासाधक इत्यतो नाद्रियत इत्यर्थः । एवं ब्रह्मणो वैदिकव्यवहारविषयत्वमसहमानश्चोदयति तर्हीत्यादि । यदि सूत्रकृत एवं ब्रह्मणो वैदिकव्यवहारविषयत्वमभिप्रेतं स्यात् तर्हि शब्दमात्रस्य नाशब्दमित्यनेन कथं ग्रहणं कुर्यात् । 'नावेदं, नावेदान्त'मित्येव वदेत् । अतो नायं सूत्रार्थ इत्यर्थः । अत्र समादधते वेदेत्यादि । 'अस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि सर्वाणि निःश्वसितानि' इति मैत्रेयीब्राह्मणे श्रावणाद् वेदव्याख्यातृवाचामपि तथात्वेन ब्रह्मणस्तद्विषयत्वमपि सूत्रकृतोऽभिप्रेत- मित्यतः शब्दशब्दग्रहणमिति ब्रूमः । तथा चैवमभिप्रेतत्वादयमेव सूत्रार्थो, नान्यः । सांख्यनिरा- रश्मिः । त्यर्थः । तदभाव इति लोकाभावे । तदपि निषेधावधिब्रह्मस्वरूपमपीत्यर्थः । दोष इति सापेक्षत्वलक्षणः । तत्रेति वेद इत्यर्थः । सिद्धमेवेत्यन्तेनेति । भाष्ये । अनधिगतेति अनधिगतो योऽर्थो यागब्रह्मात्मकः तस्य गन्तृत्वप्रतिपादकत्वेन प्रापकत्वं प्रमाकरणत्वं तु नोक्त- मनधिगतार्थप्रमाकरणत्वेन संशयविपर्यासाकरणत्वाभावापत्त्या संशयविपर्यासप्रतिपादकवेदेऽप्रामा- ण्यप्रसङ्गात् । अधिगतार्थगन्तृत्वं वेदभागेऽपि पुनर्दर्शने भवति तद्वारणायोक्तः लोकानधि- गत इति । यागब्रह्मणोः पुनः पुनर्ज्ञानेऽपि वेदाधिगतत्वेपि लोकानधिगतत्वान्नाव्याप्तिरित्यर्थः । इदं लक्षणं दूष्यत्वेन जयरामेणापि शिरोमणिटीकायामादृतम् । दूषणं तु लोकानवगतेति भाष्येणोक्तम् । परिहारस्तु भाष्ये । प्रकृते । अप्रामाणिकत्वादिति द्वैतापपादकत्वेन ब्रह्माद्वैतप्रमाऽजनकत्वात्तथा । तथात्वेनेति ब्रह्मप्रतिपादकत्वेनेत्यर्थः । नान्य इति अशब्दशब्दोत्र प्रकृतिवचन इति शंकराचार्यप्रभृतयः । सोऽन्यः सूत्रार्थः । स नेत्यर्थः । एवकारव्यवच्छेद्योप्य- यमर्थः । अन्यैः सांख्यमतं निरस्तमित्युक्तम् । तस्यानतिप्रयोजकत्वे हेतुमाहुः सांख्येत्यादि । 228