अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 323, कुल 2600 में से
संदर्भ में पढ़ें२३४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० ७ किंच । हेयत्वावचनाच्च ॥ ७ ॥ इतोऽपि निर्गुण एव जगत्कर्ता । वेदान्तेषु सर्वत्र साधनोपदेशे पुत्रादिवज्ज- गत्कर्ता हेयत्वेन नोपदिश्यते । यदि सगुणः स्यात् प्राकृतगुणपरिहारार्थं मुमुक्षु- भिर्जगत्कर्ता नोपास्यः स्यात् पुत्रादिवत् । अत ईक्षत्यादयो न सगुणधर्माः । सूत्रत्रयस्य ईक्षतिहेतुसाधकत्वाच्चकारः । एवं सूत्रचतुष्टयेन ईक्षतिहेतुना जगत्क- र्तृत्वोपपत्त्या सृष्टिवाक्यानां ब्रह्मपरत्वमुपपादितम् ॥ ७ ॥ भाष्यप्रकाशः । स्तत्रेत्यादि । तथाचासां श्रुतावुपक्रमगतं कर्तृभूतं ब्रह्मैवेति तस्मिन्नित्यनेन परामृश्य तस्यैव प्रापञ्चि- कधर्मराहित्यबोधनेन विरुद्धधर्माधारत्वं निगमयित्वा तादृशे तस्मिन् परिनिष्ठितस्य मुक्तिं वदन्ति । तथान्यत्रापि, सदेव सौम्येदमित्यादिना कर्तृत्वादिविशिष्टं ब्रह्मोक्त्वा, 'आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये' इति । अतस्तादृशब्रह्मनिष्ठस्य मोक्ष उपदि- श्यत इति सृष्टिप्रकरणोक्तं फलमेव तत्रत्यात्मशब्दस्यौपचारिकत्वनिवर्तकं तात्पर्यलिङ्गत्वादिति सूत्राशय इत्यर्थः ॥ ६ ॥ हेयत्वावचनाच्च ॥ ७ ॥ आत्मशब्दस्यात्र गुणातीत एव कर्तरि तात्पर्यमिति बोधयन्त- श्चतुर्थसूत्रमाहुः किंच । हेयत्वावचनाच्चेत्यादि । अर्थस्तु निगद्व्याख्यातः । तथा चात्रोपपत्ति- रश्मिः । तथान्यत्रेति छान्दोग्येऽष्टम इत्यर्थः । पुरुषो वेदेति पुरुषः स्त्री वेदेत्यर्थः । संपत्स्य इति भक्तिफलबोधकपदमभिव्याहारात् । चिरमिति सत्संपत्तौ विलम्ब इत्यर्थः । तदाहुः अत इत्यादि । तत्रत्येति आत्मा वा इदमिति श्रुतिभवेत्यर्थः । न 'चात्मा वा इदम्' इत्यादिश्रुति- रन्यत्र वर्तते । 'असद्वा इदम्' इत्यादिश्रुतिः तैत्तिरीये आनन्दवल्ल्यामित्यन्योक्तं फलमुप- चारनिवर्तकं कथं कथं चास्य तन्निवर्तने हेतुतेति शङ्कां पराकुर्वन्ति तात्पर्येत्यादि । तथा च तदात्मानमित्यात्रात्मशब्दस्यानुपचरित एवात्मनि तात्पर्यमिति फलेन स्वसमभिव्याहारद्वारा बोधना- त्तादृशतात्पर्यं लिङ्गत्वादुपचारनिवर्तने हेतुत्वं तैत्तिरीयात्मनोनुपचरितत्वसमर्थनेनान्यत्रात्मा वा इद- मिति श्रुतावपि तदुपचारनिवर्तनादित्यर्थः । भाष्ये । किं चेति हेत्वन्तरनिरूपणमारभ्यत इत्यर्थः ॥६॥ हेयत्वावचनाच्च ॥ ७ ॥ भाष्ये । निर्गुण इति प्रकृतिगुणसंबन्धरहित इत्यर्थः । 'आत्ममायासृते राजन् परस्यानुभवात्मनः । न घटेतार्थसंबन्धः स्वप्नद्रष्टुरिवाञ्जसा' ॥ इति वाक्येऽवस्थितपदबोध्यात्ममाया सा शुद्धसत्त्वरूपास्त्येव 'प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः' इति वाक्यात् । सर्वत्रेति बृहदारण्यकादिषु 'किं प्रजया करिष्यामः अमृतत्वस्य तु नाशास्ति' इत्यादिनेत्यर्थः । सगुण इति प्राकृतगुणसत्त्वसहित इत्यर्थः । नोपास्यः स्यादिति 'तज्जलान् शान्त उपासीत' इत्यादिषु तथा न स्यादित्यर्थः । न च शुद्धसत्त्वप्रधाना माया तत्र प्रतिबिम्बितं चैतन्यमीश्वरपदवाच्यं मलिनसत्त्वप्रधानाऽविद्या तत्र प्रति- बिम्बितं चैतन्यं जीव इत्युपाधिभेदकृतविशेषेण हेयत्वोपादेयत्वोपपत्तिरिति शङ्क्यम् । प्रतिबिम्बपक्षस्य 234