अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 326, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २३७ ननु प्रलये वक्तव्ये कथं सुषुप्तिः । मोक्षातिरिक्तदशायां तथाकर्मसंबन्धा- भावादिति ब्रूमः ॥ ८ ॥ भाष्यप्रकाशः । अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति । तत्र नाड्यां दुःखाभावमा- त्रम्, ब्रह्मणि सुषुप्तौ तु तद्वा अस्यैतदतिच्छन्दोऽपहतपाप्माऽभयं रूपमशोकान्तरमिति बृह- दारण्यके श्रावणाद् ब्रह्मसंपत्त्या बलादिरूपं यदधिष्ठानं, करणे ल्युट्, देहनियमनसाधनं तत् प्राप्य तथा समायातीति बोधनमेकम् । च पुनः स्वशब्द आत्मवाचकोऽत्र प्रयुक्तस्तेन पूर्वो- पक्रान्तस्य सत आत्माऽभेदबोधनमपरम् । किंचात्र विभक्त्यन्तरप्रयोगेण शब्दतः सामाना- धिकरण्याभावेऽप्युपक्रमे सत एव निर्दिष्टत्वेनार्थतः सच्छब्दसामानाधिकरण्यात् सतो निर्गु- णत्वबोधनं चेति तृतीयं प्रयोजनमिति । तथाचैवंप्रकारेण गुणातीतस्य प्रलयकारणतां बोध- यितुमेवं हेतुनिर्देश इति हृदयम् । अत्र सूत्रस्य विषयवाक्यस्य च विरोधमाशङ्कते नन्वि- त्यादि । समाधत्ते मोक्षेत्यादि । मोक्षातिरिक्तदशायां कर्मसंबन्धे सत्यपि यथा जाग्र