अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 329, कुल 2600 में से
संदर्भ में पढ़ें२४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० १० आदिमध्यावसानेषु शुद्धब्रह्मण एवोपपादनात् । सर्वेषां वेदान्तानां ब्रह्म- समन्वय उचित इति ॥ ९ ॥ किंच । श्रुतत्वाच्च ॥ १० ॥ 'पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशि- भाष्यप्रकाशः। दकेऽनुप्रवाह्यवर्णत्वेन वर्तत एवोद्ग्रहणमिति कुतो निषिध्यते संज्ञेत्येवं मैत्रेय्या मोहे पुनः संज्ञाभावनिरूपणार्थे, यत्र हि द्वैतमित्यादिना भेदधर्मसत्तायां द्वैतदर्शनकथनपूर्वकं, 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येज्जिघ्रेदभिवदेच्छृणुयान्मन्वीत विजानीयाद् येनेदं सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयात्' इत्यन्तेन, यत्र तु यस्मिन्नधि- करणे अस्य संबन्धि सर्वं स्थूलं सूक्ष्मं चात्मैवाभूद् आत्मरूपमेवाभूत् तत् तदा करणस्य विषयस्य च लयादेकरूप्ये करणविषयभावापगमात् केन कं पश्येदित्यादि । ननु यद्यप्यन्य- ल्लीने, तथापि विज्ञाता तु तिष्ठति स यथा स्वप्ने स्वयंज्योतिः पश्यत्येवं स्वयं कुतो न विजानातीत्याकाङ्क्षायां विज्ञातुः स्वरूपस्यापि समुद्रे लवणसेत्वात्मत्वं स्मारयति, विज्ञातारमि- त्यादिना । तथाच तदा विज्ञातापि न विज्ञातृरूपेणास्ति, किंतु गुणातीतेनात्मरूपेणातो न विजा- नातीत्युत्तरमुखेन सर्वस्य ब्रह्मैतौल्यां च निरूपितम् । एवं च ब्रह्म न सर्वदा सर्वव्यवहारातीतं मोक्षे तथात्वेन भावित्वाद् यदेवं तदेवं मैत्रेयीब्राह्मणश्रावितसर्ववदित्येवमत्रानुमानसिद्धेरस्य हेतुत्वं बोधितम् । तेनात्र यतो वेतिश्रुतिस्थोऽभिसंविशन्तीति भागः समर्थितः । किं चैते- नैव सर्वस्य शुद्धब्रह्मत्वमपि दर्शितमिति । तेन फलितमाहुः आदीत्यादि । आदावमृ- तत्वलिङ्गेन, मध्ये आत्मदर्शनादिना सर्ववेदनप्रतिज्ञामारभ्य, वागेकायनामित्यन्तेनावसाने सर्व- स्यात्मभावकथनेन च तेषु शुद्धब्रह्मण एव सर्वरूपत्वेन सर्वकर्तृत्वेन चोपपादनाद् ये केऽपि वेदान्तास्ते सर्वे येनकेनचिद्रूपेण ब्रह्मैव वदन्तीति सर्वेषां वेदान्तानां ब्रह्मणि तात्पर्येणान्वय उचित इत्यर्थः ॥ ९ ॥ श्रुतत्वाच्च ॥ १० ॥ सप्तमं सूत्रं पठित्वा तद्विषयवाक्योपन्यासेनैव व्याकुर्वन्ति पूर्णमि- रश्मिः। मान इति परंपरागतजीवसंबद्धत्वमपीति छान्दोग्यीयेन 'अस्य सोम्य महतो वृक्षस्य' इत्याद्यु- पदेशेन सिद्ध्यति । तत्केन कमिति जिघ्रेदित्यादिष्वेतत्पठनीयम् । अधोक्षजे सर्वव्यवहारा- तीतत्वेनेति वक्तुं सर्वदेति । तथात्वेनेति सामान्येनेत्यर्थः । मैत्रेयीति 'यत्र त्वस्य सर्वमात्मै- वाभूत्' इति पूर्वोक्तमैत्रेयीत्यादिः । अस्येति गतिसामान्यस्येत्यर्थः । आदाविति 'येनाहं नामृता स्यां किमहं तेन कुर्याम्' इति श्रुतावित्यर्थः । ननु तर्हि घटादिभ्योपि ब्रह्मबोधो भवेदिति चेत्तत्राहुः येनकेनेति । तेन घटत्वादिभिर्बोधे न ब्रह्मबोधः । ब्रह्मत्वेन बोधे तु ब्रह्मबोधो भवत्येव । तात्पर्येणेति पत्यादिकेषु अभिध्यान्वयः इति भावः ॥ ९ ॥ श्रुतत्वाच्च ॥ १० ॥ अभिसंवेशविचारमनुवृत्तौ सप्तसूत्रमिति भाष्यविरोधात् सप्तममिति । पठित्वेति सर्वबाष्यरीत्या । तद्विषयेति तत्प्रसिद्धमुपबृंहितं विषयवाक्यं तस्योपन्यासेन । उपबृंहणं समाधिभाषा तेनाभिसंवेशनकथनेपि यत इत्यस्यार्षकथनात् नाभिसंवेशान्ताधिकरणपूर्तिः । व्याकुर्व- 240