अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 331, कुल 2600 में से
संदर्भ में पढ़ें२४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० १० प्यते' इति श्रुत्यैवासंदिग्धं सर्वकार्यत्वं प्रतिपादितम् । 'सर्वे वेदा यत्पदमाम- नन्ति' इति च । चकारोऽधिकरणसंपूर्णत्वद्योतनाय । भाष्यप्रकाशः । मितत्वाच्च । अतः सर्वव्यवहारातीतत्वमनपहायैव सर्वव्यवहारविषयं ब्रह्मेत्यर्थः संपद्यते । एतेन फलितमाहुः सर्वे वेदा इत्यादि । तथाचाभिधया वृत्त्यापि सर्वे शब्दा ब्रह्मवाचका इति सर्वेषां वेदान्तानामभिधया तात्पर्येण च ब्रह्मण्येव समन्वय इत्यर्थः । अत्रेदं बोध्यम् । इयं श्रुतिः काठके द्वितीयवल्लीस्था, 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत् पश्यसि तद्वद' इति प्रश्ने मृत्युनोक्ता । 'सर्वे वेदा यत् पद- मामनन्ति तपांसि सर्वाणि च यद्वदन्ति यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण